SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २८ ] भुवनेश्वरीमहास्तोत्रम् पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः पूजाहोमी कुसुमवसनालेपनान्युज्ज्वलानि ॥ ४३ ॥ 3 भूमाविति - भूमौ शय्या भूमिशयनं वचसि नियमो चाकसंयमः कामिनीभ्यो निवृत्तिः स्त्रीभ्यो निवर्त्तनं, तथा प्रातः प्रभाते जातं विटपसमिधा जातीवृक्षशाखयां दन्तजिह्वाविशुद्धि: दन्तानां जिह्वायाश्च विशोधनं निर्मलीकरणं, ' पत्रावली प्रसिद्धा तस्यां मधुरमशनं उदनादि' तथा ब्रह्मवृक्षस्य पुष्पैः पलाशस्य पुष्पैः कुसुमैः पूजाहोमा कार्यों । तथा कुसुमवसनालेपनानि उज्ज्वलानि ॥ ४३ ॥ इदानीं गुरुस्मरणतो यद्भवति तदाहइत्थं मासत्रयमविकलं यो व्रतस्थः प्रभाते मध्याह्ने वांऽस्तमनसमये कीर्त्तयेदेकचित्तः । तस्योल्लासः सकलभुवनाश्रर्यभूतैः प्रभूतैः विद्याः सर्वाः सपदि वदने शम्भुनाथप्रसादात् ॥ ४४ ॥ इत्थमिति - इत्थं मुना प्रकारेण यः पुमान् व्रतस्थः सन् मासत्रयं अविकलं निरन्तरं प्रभाते प्रातः काले अथवा मध्याह्ने मध्यंदिने अथवा अस्तमनसमये सायं समये एकचित्तः एकमनाभूत्वा श्रीगुरुं कीर्त्तयेत् पठेत् चिन्तयेत् तस्य पुरुषस्य सपदि तत्कालं वदने मुखे सर्वाः सकलाः विद्याः उल्लासैः गद्यपद्यादिरूपैः स्फुरन्ति, कस्मात् शम्भुनाथप्रसादात् किम्भूतैरुल्लासैः प्रभृतैः सद्यः स्फुरदरूपैः पुनः किम्भूतैः . सकलभुवनाश्चर्यभूतैः गुरुस्मरणतः त्रिभुवनविषये किं न प्राप्यते श्रपितु सकलमेव प्राप्यत इत्यर्थः ।। ४४ । ९ इदानीं यथार्थ - प्रभाव स्तोत्रमहिमानमाह व्रतेन हीनोऽप्यनवाप्त मंत्रः G श्रद्धाविशुद्धोऽनुदिनं पठेद्यः " । तस्यापि वर्षादनवद्यसद्यः - कवित्त्वहृद्याः प्रभवन्ति विद्याः || ४५ || १. ग. नैर्मल्यं । २. ख. पायसादि । ३. ख. ग. तथा कुसुमवसनानि उज्ज्वलानि कुसुमानि पुष्पाणि शतपत्रादीनि वसनानि वखाणि शुभ्राणीति तथा लेपनानि चन्दनादिभवानि एतान्युज्ज्वलानि' इति । ४. ख. यद्यद्भवति, ग. स्तोत्रपठनतो यद्भवति । ५-६. ख, ग, वाऽस्वमिवसमये । ७. ख. ग. श्रीस्तोत्रं कीर्तयेत् पठेत् । ८ख. गद्यपद्यादिमयैः । ६. ख, भुवनाश्चर्यकारकैः । १०. ख. जपेद्यः ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy