SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीपृथ्वीधराचार्यपद्धतौ श्वसुरवंशजास्तृप्यन्तु इति पितृतीर्थेन । ततः पित्रादि स्वपितक्रम तर्पयेत् । ततो मूलवीजेन चतुस्तत्वाङ्कितैः शोधयाम्यन्तैः सलिलं पिबेत् । चतुर्विशेषाचमोऽयं देहतत्वविशोधकः । (तत् ) कृत्वा कुर्यान महेशानि ! तर्पणं सूलविद्यया ॥: पीठान्यादी प्रताथ देवीमाबाह्य तर्पयेत् । त्रिधा सन्तर्प्य देव्याश्च ततस्त्वावरणं यजेत् ।। वाङ्मया कमला पूर्व सर्वमन्त्राः प्रकीर्तिताः ।। त्रितारमूलमन्त्रान्ते भुवनेश्वरी ( भुवनेशी ) पदं ततः। नमः श्रीपादुकान्ते तु तर्पयामीति चोच्चरेत् । . .... अनेन क्रमयोगेन तर्पोदावरणं क्रमात् ।। तद्यथा-ऐं ह्रीं श्रीं ॐ ह्रीं भुवनेश्वर्यम्वा [ यै ] नमः, श्रीपादुकां तर्पयामि इति त्रिःसन्तर्प्य ततः पीठदेवतानामावरणदेवतानां त्रितार नमः श्रीपादुकां तर्पयामीत्येकै : कमञ्जलिं तर्पयेत् । तत्र पीठावरणदेवताश्चाने वक्ष्यामः। . : तर्पणान्ते साधकेन्द्रो दत्वा पञ्चोपचारकान् । ततः समाहितो भूत्वा जपेत्तर्पणसंख्यया ॥ निष्कलीकृत्य हृदये देवीसुद्वास्य सत्कृताम् । सङ्कलीकृत्य संहृत्य तीर्थमार्तण्डमण्डले ॥ स्तोत्रपाठं प्रकुर्वाणो ततो यागालयं व्रजेत् । न बाह्यभाषमाणस्तु न स्पृशेन्नावलोकयेत् ॥ ". इति पृथ्वीधराचार्यपद्धतौ शारदातिलकं नानातन्त्रमतमालंब्य श्रीदायीदेवसम्प्रदायिना मात्पुरस्थितेन अनन्तदेवेन विरचितायाम् भुवनेश्वरीक्रमचन्द्रिकायाम्प्रात.. रादि तर्पणान्तं विवरणं ( नाम ) प्रथमः कल्पः ।। ॥ श्रीः ।। आचम्य प्राणानायभ्य देशकालौ सङ्कीर्त्य मम सकलदोषपरिहारार्थ भुवनेश्वरीप्रसादसिद्धयर्थं भूतशुद्धयादि न्यासान् करिष्ये इति संकल्प्य । तत्रादौ आसननियम: विनासनेन मन्त्रज्ञः कृतं कर्म न सिद्धयति ।.. कृष्णाजिने ज्ञानसिद्धिस्तपासिद्धिः कुशासने ॥ १. शोधयामीत्यन्त्यपदैर्मन्त्रैः । ...
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy