SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लं ल ए में सरुह्य मूलेन दक्षनासिाहतरात्मनः शिरसि ११४ ] श्रीपृथ्वीधराचार्यपद्धतौ ततो दक्षकरतले जलं गृहीत्वा वामशाणिनाच्छाद्य मूलेन सप्तवारमभिमन्व्य तज्जलं वामहस्ते गृहीत्वा अशलिसन्धिगलितोदकेन यादिभिर्दशभिर्वर्णैः य र ल वं शं पं सं हं लं क्षं झूलविद्यासहितरात्मनः शिरसि मार्जयित्वा तज्जलं सन्त्यज्य अन्यजलं पूर्ववद् गृहीत्वा कादिमान्तः स्पर्शवणे (कं खं गं घ ङ च छ ज झ वं टं ठंड ढ णं तं थं दं धं नं पं फंव में मं) मूलविद्यासहितैर्जलं पीत्वा अन्यजलं पूर्ववद् गृहीत्वा पोडशस्वरैः सविन्दुभिः ( अंां ई ई उ ऊ ऋ ऋलं लू ए ऐं ओं औं अं अं) मूलविद्यासहितैरात्मनः शिरसि पुनर्जियित्वा तज्जलं दक्षकरे संरुह्य मूलेन दक्षनासिकायामिडया नाड्या चन्द्रमण्डलवाहिन्या जलं पूरकप्रयोगेण नीत्वाऽन्तर्नाडी प्रक्षाल्य तेन नाभिप्रविष्टेन तमकल्लोलं कज्जलामं दक्षनासिकया सूर्यमण्डलवाहिन्या पिङ्गलया पापपुरुषं रेचकप्रयोगेण विरेच्य अस्त्रमन्त्रेण "श्ली पशु हुं फट्" इत्यस्त्रेण चक्रीकृतकरण वामभागे भूमौ वाऽस्फालयेत् । तत उत्थायाध्यंत्रयं दद्यात् । तद्यथा " ऐं कामेश्वरी विद्महे ही भुवनेश्वरी धीमहि तन्नः शक्तिः प्रचोदयात्” । .. उद्यदादित्यवर्तिन्यै श्रीभुवनेश्वर्यै इदमध्यं समर्पयामि नम इत्ययंत्रयं दत्वा यथाशक्तिवारं गायत्री तर्पयेत् । पुनः पूर्ववदाचम्य मूलेन प्राणायामत्रयं पूर्ववन्न्यासं विधाय गायत्रीं ध्यायेत् । ततो जपन् महेशानीमाधारे कुङ्कुमप्रभाम् । मध्याह्ने हृदयाम्भोजे चिन्तयेच्चन्द्रसन्निभाम् ।। ध्यायेच्च शिरसो मध्ये तमालश्यामलाश्रियम् ॥ इति ध्यात्वा पूर्वोक्तगायत्रीमष्टोत्तरशतबारं जपित्वा पुनः पडङ्गन्यासध्यानं विधाय गुह्यातिगुह्यमिति जपं पडध्वव्यापिन्यै देवतायै समर्पयेत् । एवमुक्तकालत्रयेऽपि मार्जनाद्यान्तं कुर्यात् । ततः प्रातःसन्ध्यानन्तरं सौरपूजां कुर्यात् । तद्यथा-भूमौ गोमयेन चतुरथं मण्डलं कृत्वा तत्र रक्तचन्दनेनाष्टदलं विरच्य मध्ये दिवसेश्वरं मायावीजसहितं विन्यस्य दलेपु सोमादीन् विन्यस्य पूजयेत् । तद्यथा-हीं सूर्याय नमो मध्ये, दलेषु ह्रीं सोमाय नमः ह्रीं भौमाय नमः ह्रीं बुधाय नमः ह्रीं गुरवे नमः ही भार्गवाय नमः ह्रीं मन्दाय नमः ह्रीं राहवे नमः ह्रीं केतवे नम इति सम्पूज्यायेपात्रे चन्दनाक्षतकुसुमानि निक्षिप्य पदीर्घमायावीजेन पडङ्ग कृत्वा दिवसेश्वरं ध्यायेत् । ..
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy