SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीक्रमचन्द्रिका . [ ११३ ... वाममूले वामदेवो मध्ये चैव शशिमभः। ... वसवो मणिबन्धे च पृष्ठे चैव हरिः स्मृतः ॥ . शिरस्थात्मा महादेवो परमात्मा सदाशिवः । सर्वेष्वङ्गेषु दिक्पालाः शक्तिमातृगणादयः ॥ सर्वे देवाश्च रक्षन्तु विभूतेरभिधारणे ।। - अथ त्रिपुण्डलक्षणम् वर्तुलेन भवेद् व्याधिःघेणैव तपाक्षयः । नेत्रयुग्मप्रमाणेन त्रिपुण्ड्रं धारयेद् वुधः । इति ज्ञात्वा विधानेन भस्मस्नानं समाचरेत् । सर्वाङ्गेष्वथवा कुर्यात् केवलं मूलविद्यया ॥ इति विभूतिस्नानधारण विधिः । .. अथ सन्ध्याविधिरुच्यते । आदौ स्वशाखोक्तवैदिकसन्ध्यां निवर्त्य मन्त्रसन्ध्या मारभेत् । तद्यथा-ॐ ह्रीं आत्मतत्वं शोधयामि नमः स्वाहा । ॐ ह्रीं विद्यातत्वं शोधयामि नमः स्वाहा । ॐ ह्रीं शिवतत्वं शोधयामि नमः स्वाहा । एवमाचम्य । . . त्रिरुन्मृज्य सकृत् स्पृष्ट्वा नासिके नयने शिरः। हृदयं दक्षिणं कर्ण संस्पृशेदयमाचमः ।। ..... मूलेन प्राणायाम कुर्यात् । ततः पडङ्गमङ्गपञ्चकन्यासं कुर्यात् । ॐ हां हृदयाय नम .. अङ्गुष्ठाभ्यां नमः, ॐ ह्रीं शिरसे स्वाहा तर्जनीभ्यां नमः, ॐ ह्र शिखायै वषट् मध्य..माभ्यां नमः, ॐ हैं कवचाय हुं अनामिकाभ्यां नमः, ॐ ह्रौं नेत्रत्रयाय वौषट् कनिष्ठि काभ्यां नमः, ॐ हः अस्त्राय फट करतलकरपृष्ठाभ्यां नम इति षडङ्गः। अथाङ्गपञ्चकन्यासः । ॐ ह्रीं हल्लेखायै नमो मूर्धिन, ॐ ह्र गगनायै नमो मुखे, ॐ है रक्तायै नमो हृदये, ॐ ह्रौं करालिकायै नमो गुह्ये, ॐ हः महोच्छुष्मायै नमः पादयोरिति विन्यस्य। ॐ ह्रीं शिवाय नमः दक्षकरे ॐ हां शक्तये नमो बामकरे । ततो जले त्रिकोणं षट्कोणं यन्त्रं विधाय तीर्थं सूर्यमण्डलादङ्कशमुद्रया “ऐं हृदयाय नम" इत्याकृष्य तीर्थे क्षिप्त्वा पूर्वोक्ता वाहनादिसप्तमुद्राः प्रदर्श्य तीर्थान्यावाह्य गङ्गे च यमुने चैव गोदावरि सरस्वति ।। नर्मदे सिन्धु कावेरि ! जलेऽस्मिन् सन्निधिं कुरु ॥ ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy