SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पूजापद्धतिः [६७ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा पाताले वाऽनले वा सलिल पवनयोर्यत्र कुन स्थितो वा। क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभवलिविधिना पान्तु वीरेन्द्रवन्द्याः॥ , ....... यां योगिनीभ्यो हुं फट् स्वाहा, इत्यनेन कनिष्ठिकाङ्गुष्ठयोगेन वह्निकोणे योगिनीभ्यो वलिं दत्त्वा, नैर्ऋत्यां ॐ ऐं ह्रीं श्रीं क्षांक्षी चू तैं क्षौं क्षः हुं स्थानक्षेत्रपाल ! सर्वकामान् पूग्य पूरय अलिबलिसहितं बलिं गृह्ण गृह्ण स्वाहा इत्यनेन वायुकोणे मएडलं कृत्वा सम्पूज्य श्री गां गी गूज गौं गः गणपतये वरवरद सर्वजनं मे वशमानय इमां पूजा बलिं गृह गृह्ण स्वाहा गजशुण्ड मुद्रया वलिं दद्यात् ..इत्यनेन गणपतये बलिं दत्त्वा, ईशानेतरयोर्मध्ये मण्डलं कृत्वा ॐ ऐं ह्रीं श्रीं सर्वविघ्नकृभ्यः सर्वभूतेभ्यः हुं फट् स्वाहा, इत्यनेन सर्वभूतेभ्यो बलिं दत्वा ततो ... छागादिवलिमपि दद्यात् । ततः शिरसि गुरु हदि इष्टदेवतां च ध्यात्वा यथाशक्तितो जपं विधाय प्राणायामऋष्यादिकरषडङ्गन्यासान् विधाय जलमादाय ॐ गुह्यातिगुह्यगोपनी त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि !॥ .. इत्यनेन तेजोमयं जपफलं देव्या वामहस्ते समर्प्य कवचसहस्रनामस्तोत्रादि - पठित्वा साष्टाङ्गं प्रणिपत्य प्रदक्षिणीकृत्य सामयिकैः सह पात्रचन्दनं विधाय नन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः। अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ इत्यादि शान्तिस्तोत्रं पठित्वा ईशाने मण्डलं कृत्वा ॐ निर्माल्यवासिन्यै नम, ... इत्यनेन ईशाने निर्माल्यादिकं निक्षिप्य जलमादाय ॐ ऐं ह्रीं श्रीं इत्तः प्राणबुद्धिदेह. धर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पदस्यां उदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत् सर्व मामकीनं सकलं श्रीभुवनेश्वर्याश्चररणकमले समर्पणमस्तु स्वाहा, . इत्यनेनाप्रभागे जलं निक्षिप्य ॐ तत्सद् ब्रह्म इति स्मृत्वा यथासुखं विहरेत् ॥ - इति श्रीरुद्रयामले तंत्रे दशविद्यारहस्ये श्रीभुवनेश्वर्या नित्यपूजनद्धतिः सम्पूर्णा ॥ संवत् १६४३ मिती श्रावण सुदि ६ रविवासरे श्रीरस्तु ॥ कल्याणमस्तु ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy