SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीपञ्चानम् देवी दात्री च भोक्त्री च देवी सर्वमिदं जगत् । देवी जयति सर्वत्र या देवी सोऽहमेव हि ॥ ६ ॥ यदक्षरपरिदृष्टं * मंत्रहीनं च यद्भवेत् । क्षन्तुमर्हसि देवेशि कस्य न स्खलितं मनः ॥ ७ ॥ द्रव्यहीनं क्रियाहीनं मंत्रहीनं सुरेश्वरि ! सर्व तत् कृपया देवि क्षमस्त्र परमेश्वरि ! ॥ ८ ॥ यन्मया क्रियते कम जाग्रत्स्वप्नसुषुप्तिषु । तत्सर्व तावकी पूजा भूयाद्भूत्यै नमः शिवे ! ॥ ६ ॥ प्रातः प्रभृति सायान्तं सायादि प्रातरंततः यत्करोमि जगद्योने तदस्तु तव पूजनम् ।। १० ।। क्षमस्व देवदेवेशि मम मन्त्रस्वरूपिणि । तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे ॥ ११ ।। इत्येवं देवीं क्षमाप्य पुनरपि निर्माल्यं त्यक्त्वा संपूज्य देवीं स्वहृदि विसर्जयेत् । पुष्पाञ्जलिमादाय ॐ गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि ! यत्र ब्रह्मादयो देवा न विदुः परमं पदम् ॥ इति पीठे पुष्पाञ्जलिं दत्त्वा संहारमुद्रया पीठात् पुष्पं गृह्णीयात्-. ॐ तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वरि ! . यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि । इति पठित्वा पुष्पं हृदि स्पृशन्नाघ्राय शिरसि स्थापयेत् । तत ईशाने मण्डलं कृत्वा 'वां बटुकाय नम' इति सम्पूज्य ॐ ऐं ह्रीं श्रीं ऐह्येहि देवीपुत्र बटुकनाथ कपिलजटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय सर्वोपचारसहित वलिं गृह्ण गृह्ण स्वाहा, इत्यनेनाङ्गुष्ठानामिकायोगेन ईशानाय वटुकाय वलिं दत्त्वा, आग्नेय्यां मण्डलं कृत्वा 'यां योगिनीभ्यो नमः इति सम्पूज्य ॐ ऐं ह्रीं श्रीं . * यदक्षरपदभ्रष्टं मात्राहीनं । ...
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy