SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [२५३ -- नगरं नगरंभादिवल्लीराजिविराजितं ॥ तत्र राज्यं करोत्येष श्रीमान कुतबखानकः । तथा हैबतिखानश्च दाता भोक्ता प्रतापवान् ॥ अथ श्रीमूलसंघेस्मिन् नंदिसंघेनघेजनि । बलात्कारगणस्तत्र गच्छः सारस्वतस्त्वभूत् ॥ तत्राजनि प्रभाचंद्रः सूरिचंद्रो जितांगजः । दर्शनज्ञानचारित्रतपोवीर्यसमन्वितः ॥ श्रीमान् बभूव मार्तडस्तत्पट्टोदयभूधरे । पद्मनंदी बुधानंदी तमश्छेदी मुनिप्रभुः ॥ तत्पट्टांबुधिसच्चंद्रः शुभचंद्रः सतां वरः।। पंचाक्षवनदावाग्निः कषायक्ष्माधराशनिः ।। तदीयपट्टांबरभानुमाली क्षमादिनानागुणरत्नशाली । भट्टारकश्रीजिनचंद्रनामा सैद्धांतिकानां भुवि योस्ति सीमा। .. तच्छिष्या बहुशास्त्रज्ञा हेयादेयविचारकाः । शयसंयमसंपूर्णा मूलोत्तरगुणान्विताः ।। जयकीर्तिश्चारुकीर्तिर्जयनंदी मुनीश्वरः ।। भीमसेनादयोन्ये च दशधर्मधरा वराः ॥ ... श्रीमान् पंडितदेवोस्ति दाक्षिणात्यो द्विजोत्तमः । यो योग्यः सूरिमंत्राय वैयाकरणतार्किकः ॥ अग्रोतवंशजः साधुर्लवदेवाभिधानकः । तत्सुतो धरणः संज्ञा तद्भार्या भीषुही मता ॥२५ तत्पुत्रो जिनचंद्रस्य पादपंकजषट्पदः । मीहाख्यः पंडितस्त्वस्ति श्रावकवतभावकः ॥२६ तदन्वयेथ खंडेलवंशे श्रेष्ठीयगोत्रके । पद्मावत्याः समाम्नाये यक्ष्याः पार्श्वजिनेशिनः ।। २७ साधुः श्रीमोहणाख्योभूसंघभारधुरंधरः । .. एतैः श्रीसाधुपार्श्वस्य चोषाख्यस्य च कायजैः । वसद्भिर्ट्सझणूस्थाने रम्ये चैत्यालयैर्वरैः ।। ५० चाहमानकुलोत्पन्ने राज्यं कुर्वति भूपतौ । श्रीमत्समसखानाख्ये न्यायान्यायविचारके ॥५१ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy