________________
नि० ६५१] प्ररूपणाद्वारम् ।
६८१ सो कतिविहो त्ति भणिते । कतिविधो नमस्कारः ? इति पृष्टे प्रतिवचनम्पञ्चविध इति । ननु च पुरा पूर्वमभिहितम्-'एकं नमोऽभिधानम् [३३९८]इति एको नमस्कार केन पुनविशेषेण पञ्चविधो भण्यते ! ॥३४४३॥
एक्कं णमोभिधाणं तदरुहदादिपदसण्णिवातातो । जायति पंचविकप्पं पंचविधत्थोवयोगातो ॥३४४४||
एक्कं णमोभिधाणं इत्यादि । एकं नम इत्यभिधानं संग्रहनयादेको नमस्कारः, तदेवैकमभिधानमहत्-सिद्धाचार्योपाध्यायसर्वसाधुपदसन्निपातान्नानात्वमिव प्रतीयमानं पञ्चविकल्पं भवति, पञ्चविधार्थसम्बन्धात् ॥३४४४॥
अधवऽण्णपतादिणिवातणाहि णेवातियं च ताई च । पंचरतातीणं पताइं तं णिवतते जेसु ॥३४४५॥
अधवऽण्णपतादिणिवातणाहीत्यादि । अथवा अन्येषां पदानामादौ निपातनान्नैपातिकमेतदित्यन्वर्थत्वात् तावद्भेदमेतत् । तानि वा अर्हदादीनि पञ्च पदानीति पञ्चनमस्कारः, केवलस्य निपातस्याप्रयोगादिति ॥३४४५॥
अधवा णेवातियपदेपदत्थ[२२६-द्वि०]मेत्ताभिधाणतो पुव्वं । इधमरुहतादिपंचविधपदपतत्थोवदेसणतो ॥३४४६॥
अधवा णेवातिय० इत्यादि । अथवा पूर्व प्ररूपणायां पदं पदार्थश्च नैपातिकपदविषय उक्तः । इदानी प्ररूपणाद्वारे 'कइविध' प्रश्ने पञ्चविधो नमस्कार इति पञ्चविधाहदादिपदार्थोपदर्शनमनेन क्रियते ॥३४४६॥
णणु वत्थुम्मि पदत्थो ण जतो तच्चकधणं तहिं जुत्तं । तधवि पदत्यं तत्थेव लाघवत्थं पवोच्छिहिति ॥३४४७॥
गणु वत्थुम्मि इत्यादि । ननूत्तरत्र वस्तुनिरूपणायां पदार्थों निरूपयिष्यते तथा च पुनरुक्तदोष इति । उच्यते, न तत्र पदार्थकथनम् । तत्र हि प्रागनिरूपितपदार्थस्य तत्त्वकथनम् , इह पदार्थ इति । तथापि तदेवं 'गुरुः प्रक्रमः' इति परिभाव्य ग्रन्थलाघवनिमित्तमिममेव पदार्थ तत्र संचार्य तत्त्वकथनं वक्ष्यत इति न पुनरुक्तदोषः ॥३४४७॥ कतिविधः ? इति द्वारं निरूपितम् ।
१यन्ति ता को। २ पंचारु को त, पञ्चारु हे।.३ 'हयाईणि को हेत। १ पयं पत। ५ णया को हे त ।