SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कर्णेकुतूहलम् मित्राम्भोजविकासकारि विलसद्भास्वत्करः कीर्तिदः सोऽयं श्रीजयसिंहभूपतिरभूद्राजाधिराजोऽनघः ।।१३।। श्रीरामचन्द्रसमविजययोग, श्रीकृष्णसदृशकृतभूरिभोग रघुवंशतिलकजयसिंहभूप, निजभक्तपाल नरसिंहरूप ।।१४।। कृतहेमदान जितकर्णदेव, नृप धर्मराज इव धनध (द) एव । दिनकरसमतेजःपुञ्जरूप, जितशरच्चन्द्रजयसिंहरूप ॥१५॥ रिजलरुहलक्ष्मीहारिधामैकधामा कुवलयकुलचक्रप्रीतिदत्तोत्सवश्रीः । परमविशदमूर्ति चकोरै कसेव्यो नरपतिजय [४ B] सिंहश्चन्द्र एवापरोऽभूत्।।१६।। तत्पौत्रो समस्तजगतां परमदैवतरूपो विजितारिमण्डल आखण्डल एवापरो भूमेः सहस्रांशुरिव विकासिताखिललोकः लोकनाथ इवावनिपालः कलानिधिरिव जगदानन्ददायकः श्रीमान् परमप्रतापी महाराजाधिराजः श्रीप्रतापसिंहोऽस्ति । यथा सूर्यः साक्षान्मित्रवर्गेण रूपे साक्षात्कामः कामिनीभिर्व्यलोकि । चन्द्रः साक्षाल्लोचनैः सज्जनौधैः साक्षादिन्द्रो भूमिपैः श्रीप्रतापः ॥१७॥ दृष्टो देवैः पार्थतुल्यो रणेऽसौ दाने दृष्ट: कर्ण एवापरो वा । रामः साक्षाधीरतायां नरौधै दृष्टः किं वा सप्रतापः प्रतापः ॥१८॥ इन्दुमुखं भवति वागमृतं मुखेन्दौ सत्यं सदैव वचनामृतमेतदीये। सत्ये सधर्ममतिरस्य हरिर्मतौ च भक्तिहरौ विज (५ A) यते परतापसिंहः ।।१६।। प्रतापोऽस्मिन् लोके प्रतपति दिनेशोदितकरो रिपो वा मित्र वा समकरनिपातो दिनकरः । पर बुद्धौ भेदो नहि भवति भेदः प्रतपने प्रजानाथः श्रीमान् प्रभवतु सदा नः प्रभुरसौ ।।२०।। मगाङ्कोऽयं रङ्कः प्रभवति सपः सुमनसां दिनेशेऽस्तं याते मलिनमुख एवोदयति च ।
SR No.010595
Book TitleKarn Kutuhal
Original Sutra AuthorN/A
AuthorBholanath Jain
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages61
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy