SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५८ वामनेति । स्पष्टम् ॥७॥ अज्ञानघनसकाशा वनाहकारकर्कशा | पुनर्जन्मकरी ज्ञेया वासना मलिना बुधैः ||८|| ज्ञानेति । अज्ञानक्षेत्रे एव वासनाबीजानि प्ररोहन्ति हि || || संभृष्टबीजसस्थाना पुनर्जन्माङ्क राक्षमा । शरीरे वासना शुद्धा भाति चक्रे यथा भ्रमिः ॥६॥ सभृष्टेति । सजाते ज्ञाने कृतकृत्ये चक्रे भ्रमिरिव शरीरे भृष्टबीजकल्पा वासना भवाङ् कुरोत्पादिका न भवति । उक्त च परमार्थसारे इति ॥६॥ दशकण्ठवधम् अत एतत् फलति 'अग्न्यभिदग्ध बीज यथा प्ररोहासमर्थतामेति । ज्ञानाग्निदग्धमेव कर्म न जन्मप्रद् भवति ||६२||' इति ॥१०॥ ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ||१०| य इति । ज्ञातज्ञेया प्राप्तज्ञेयावसाना इत्यर्थ । तथाच गीतासु 'यदा ते मोहकलिल बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेद श्रोतव्यस्य श्रुतस्य च ॥ मुक्तिफल दृष्टान्तयन् भरद्वाज नियन्त्रयति जीवन्मुक्तिश्रिया रेमे यथा रामो महायशाः । तदत्र साध्यते साधो' सानधानोऽनधारय ॥११॥ 1 जीवन्मुक्तीति । सावधान एकतान सन् अवधारय निश्चिनु । किं तत् हे साधो । यत्र जीवन्मुक्तिविषयक साध्यते दृष्टान्तानुभवाभ्या व्युत्पाद्यते इति ॥ ११ ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy