SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमो गुच्छक परमोच्छ्राय प्रकाश्य परितो महः । आक्रान्तजगतीचक्रो राजहसो व्यरोचत ||७२ || अवाप्येति । अत्रान्त स्वावीनीकृत शासनेन चङ्क्रमणेन च जगतीचक्र भूमण्डल येन तथाभूत । राजहस, राजशार्दूल मरालराजश्च । परमोच्छ्राय महती श्रिय गतिविशेष च । अवाप्य आलम्ब्य । परित समन्तात् । मह तेज धाम च प्रकाश्य निरूप्य च । व्यरोचत व्यद्योतत ||७२ || सरस्वतीन्दिराधौते प्रवेष्टविटपाश्रिते । तस्य खड्गलताभोगे चिर चिक्रीड मेदिनी ॥ ७३ ॥ सरस्वतीति । तस्य राज्ञो दशरथस्य | सरस्वतीन्दिराभ्या धौते निक्ति । प्रवेष्टौ बाहू एव विटपौ, तदाश्रिते तदालम्बने । खड्गो निस्त्रिंश एव, लता वल्ली, तदाभोगे झलञ्झलायाम् । मेदिनी चिर चिक्रीड । सुखेन सौरभमाससादेत्यर्थं । वीरभोग्या हि वसु वरेति तात्पर्यम् ॥७३॥ पठन् द्विजो वागृषभत्नमीयात् स्यात् चत्त्रियो भूमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज् जनश्च शूद्रोऽपि महत्त्वमीयात् ॥७४ || पठन् द्विज इत्यादि मूलरामायणानुरूपम् । विशेषस्त्व ||७४ || तातश्रीसरयूप्रसादचरणस्नर्वृक्षसेवा परो ५५ मातृश्री हरदेव्यपारकरुणा पीयूषपूर्णान्तरः । साकेतापरभागवद्धवसतिदुर्गाप्रसादः सुधी रास्ते तेन कृतेऽत्र रामचरिते गुच्छोऽयमाद्यो गतः ॥७५॥ इति श्रीमति रामचरिते दशकण्ठवधे भगवदवतारो नाम प्रथमो गुच्छकः ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy