________________
५४
दशकण्ठवधम् यथाकल्प भगवता वसिष्ठेन कल्पिते सस्कारजाते ते गमभद्रादयश्चत्वारो भ्रातरो विद्याना विनयाना च सक्रान्तिमणिदर्पणा नवनरिन्दुकिरणैरिव स्वभावमधुरैरात्मगुणैः सह लोकाना हृदयान्यध्यवात्सुः । परस्परप्रेमबन्धेष्वपि तेषु प्रकृत्या चन्द्रः सूर्यमित्र लक्ष्मणो राम शत्रुन्नो भरतमन्वसाषीत् ॥६६॥
यथेति । यथाकल्प यथागृह्यसूत्रशासनम् । भगवता वसिष्ठेन कुल गुरुणा । कल्पिते अनुष्ठिते । सस्कारजाते सस्कारकलापे सति । ते रामभद्रा दयश्चत्वारो भ्रातर । विद्याना चतसृणा त्रयीप्रभृतीना, विनयाना च शीलाना च । सक्रान्तये सक्रमणाय, मणिदर्पणा रत्नमुकुरबिम्बा । नवनवैरिन्दुकिरणे वर्विष्णुसुवाशुकरैरिव । स्वभावमधुरै प्रकृतिपेशलै । आत्मगुणै स्वचरित्र । सह समम् । लोकाना जनानाम् । हृदयानि मानसानि । अध्यवात्सु अधिवस न्तिस्म । परस्परेषाम् अन्योन्येषा, प्रेमबन्वा स्नेहग्रन्थय , येषा तेषु अपि । तेषु रामभद्रादिषु । प्रकृत्या स्वभावेन । चन्द्र चन्द्रमा । सूर्य सवितारमिव । लक्ष्मणो राम, शत्रुघ्नो भरतम् । अन्वसार्षीत् अन्वयासीत् ॥६६॥
दन्तैरिगाभ्रमातङ्गो भुजैरिव जनार्दनः ।
आश्रमैरिव सद्वर्णः सुतैर्दशरथोऽरुचत् ॥७॥ दन्तैरिति । अभ्रमातड्न ऐरावत । दन्तै चतुभिर्दशनैरिव । जनार्दन विष्णु । भुजै चतुर्भि बाहुभि इव । सद्वर्ण ब्राह्मणादि । आश्रमै ब्रह्मचर्या दिभिश्चतुभिरिव । दशरथो राजा, सुतै रामभद्रादिभि । अरुचद् अरोचिष्ट ।।७०।।
कृतरत्नाकरोल्लासो हृतलोकतमोमलः ।
प्रसन्नमण्डलो राजा विरराज करोज्ज्वलः ॥७१॥ कृतेति । कृत सपादित , रत्नाकराणा रत्नखनीना समुद्रस्य च, उल्लासो वृद्धि , येन तादृक् । हृत दूरीकृत , भूरादीना जनाना च, तमोमल अज्ञानग्रन्थि अधकारश्च, येन तादृक् । प्रसन्न मुदित निर्मल च, मण्डल सामन्तवर्ग विम्बश्व, यस्य तादृक् । करै भागधेयै अशुभिश्च, उज्ज्वल विशुद्ध स्वच्छश्च । राजा दशरथ , चन्द्रमाश्च । विरराज विरेजे ।'७१।।