SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५२ दशकण्ठवधम् रामभद्रेति रम्येण पुण्येन नाम्ना मुहुः मल्कवीना वचोवल्लरीः स्फारमुद्वेल्लयन्, समानन्दयन् शर्म संचारयन् साध्यस भञ्जयन् मड्नु सोऽसावि कौशल्यया श्रीहरिः ॥६५॥ चैत्रेति । स श्रीहरि । चैत्रशुक्ले नवम्या तिथौ | आदितेयर्क्ष के पुनर्वसुनक्षत्रे | तुषाराशुवागीश्वराभ्या चन्द्रगुरुभ्याम् अविष्ठिते कर्क लग्ने । पञ्चसु खेटेषु ग्रहेषु । तुङ्गयातेषु उच्चस्थितेषु । अपास्ता निरस्ता, अखिला समग्रा, ये उत्पातसताना भौमदिव्यान्तरिक्षरूपा, तेषा सबन्धगन्धाक ुरा, सपर्कलेशोद्गमा, यस्मिंस्तथाभूते । अनेहसि काले । रम्येण शब्दतोऽर्थतश्च मनोहरेण । पुण्येन पवित्रेण पावित्र्यजनकेन च । रामभद्र ेति श्रुतिस्मृतिप्रसिद्धेन । नाम्ना अभिधानेन | मुहु वारवारम् । सत्कवीना वाल्मीकिव्यासादीनाम् । वचोवल्लरी वाग्व्रतती । स्फारम् अत्यर्थम् । उद्वेल्लयन् वृहयन् । सर्वं स्थावरजङ्गमात्मकम् । विश्वम् आनन्दयन् आह्लादयन् । शर्म सुखम् । सचारयन् प्रवर्तयन् । साध्वस भयम् । भञ्जयन् मर्दयन् सन् | कौशल्यया भगवत्या महाराज्ञ्या । मडनु सपदि । अनायासमित्यर्थ । सावि उपादि ||६५|| स्फुरन्मरन्दसौरभ प्रवाहवासनोत्सुकभ्रमन्मिलिन्द काहलीविजृम्भणावभासिता, दिवो निपेतुरुबरुदारपारिजातक प्रसून पृष्टस्तदा निलिम्पलोककल्पिताः ॥ दिशः प्रशस्तदर्शनाः समीरणाः सुखावहा भुनः प्रकर्षसगता जनाः प्रसन्नतामिताः, निचित्रकर्मभोगतः क्वचिच्चराचरान्तरे निविष्टजीवचेष्टिता वय प्रसादमागताः || ६६ || 6 1 स्फुरदिति । तदा तदानीम् । दिव आकाशाद् उच्चकै । निलिम्पलोक देवकुलै, कल्पिता सृष्टा । स्फुरन्त उन्निद्रा, ये मरन्दाना मकरन्दानाम्, सौरभ प्रवाहा सौगन्ध्यतरङ्गा, तेषा वासनया लिप्सया, उत्सुका उत्कण्ठिता,
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy