SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २८ आचार्यदण्डिविरचिता क्रीडया। तत्प्रधानाङ्गेषु च [स्फुटगद्गदगम्भीरभेदादिस्वरेण] निगृहीतामुक्तसंज्ञेन सलिलवायेनानेकमधुरकरणरमणीयेन रममाणं रमण्यः काश्चित् करपल्लवसम्पुटोत्पीडितमुक्तैः [प्रीतिपल्लवद्रवैरिवैनं धाराजलैः] ....गुरशृङ्गकोणमुखमुक्तामिः कुङ्कुमजलधाराभिरनङ्गपन्नगमुखशिखिशिखाभिरिवावचकरुः । अपरा विपक्षव्यजितवि[ लासरागरोषिता रक्त ]कटाक्षमालाभिरेव जिह्मनाम्नीभिः कौसुम्भसरिद्भिरिव सरभसा विधुरायमाणमाचकृषुः । इतरास्तमसीव पयसि दुर्विभागगतयः करतलकमलावष्टम्भप्रसृप्ता यादृच्छिकैर्नाम तच्चरणमूलघट्टनैः स्पर्शातिशयानुमेयमानप्रार्थनाप्रणिपाता न कृपणमन्वतिष्ठन्त । अवनिपो गर्विता व्याकुलयन् , मुग्धाः सन्तारयन् , भीताः समाश्वासयन् , कुपिताः प्रसादयन् , मुदिताः प्रोत्साहयन् , प्रस्थिताः प्रतिरुन्धन् , कासांचिदुस्पलाशां वल्लीमिव सफलयन् , कासांचित् पद्मरागं रत्नमिव सम्पादयन् , कासांचिदमन्दमारममनो(?)रंशुकान्यलक्ष्यगतिराक्षिपन् , कासांचित् कमलरजस्समधूननच्छलान्निरञ्जनस्निग्धताम्रतरळताराणि नेत्रोदराणि चुम्बन , कासांचित् कामायतनेषु कामशरानिवादृश्यपातान्नखानर्पयन्, निबिरीसविलासश्चण्डातकपरिहितः पर्याकुटिलकुन्तलोत्तरापाङ्गलोचनः कुमरागलोहितोषप्लुताङ्गः सन्त्रासितसकलराजहंसनिवहो विहृत्य समरादिव सरसः सह(प्रयामिज्ञं ? प्रियाभिर्जय)श्रीभिरिव निर्जगाम जगाम च। मज्जनानन्तरमनुष्ठितयथोचिताभिषेकमङ्गलो यथाविध्युपस्थाय तिग्ममार्नु, भगवन्तमुपास्य चित्रभानुम् , अभिराध्य च देवं देवकीसूनुं, सह सुहृद्रिस्त्वगनुसारिणा सुरभिचन्दनरसेन कृतसमालम्भनः कुशलसूदसाधितेन शोधनकरुपनप्रक्षा 1. Our Ms. reads वाद्यानेक. 2. L. aboat 14 letters. 3. Our Ms. reads विलक्ष. 4. A reads आचुकुश: page 16. 5. , अवनिपोऽपि । आमज्जना.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy