________________
अवन्तिमुन्दरी।
अथ स राजा सर्वदेवताराधनपरः परं घिषणोपपन्नोऽपि दिव्यानन्दजननेषु कविगुणेषु प्रीतिमानभूत् । अविबुधोऽपि क(या?था)मृतरसं कलावृतमेषावण ()।
एकदैनं समागतमभिनवो गन्धर्वस्तुम्बुरुरिव जम्भशत्रुमित्युपावीणयत् - दनुजपतिहृदयभूधरविभेदविज्ञातशक्तिनखकुलिशम् । जगदुदयहेतु विष्णोरवतु वपुर्नारसिंहं वः ॥
स इमामार्यामाकर्ण्य गुणकुतूहली तमप्रासीत् - 'मद्र ! कस्यैतान्यक्षराणि विकटबद्धान्योजस्वीनि च लक्ष्यन्ते, कस्य चेयं वर्गरचना माधुर्यवती प्रसन्ना चेन्दुकरकलिकेव श्रवणानन्दमुत्पादयति' इति ।
स तु सम्प्रणिपत्य व्यज्ञापयत् – देव! परमनुगृहीतोऽस्मि, क्षणमवधानदानादनुगृहीततमः क्रियतामयं जनः। “अस्ति दिशि पश्चिमोतरस्यामार्यादेशशिखामणिरानन्दपुरं नाम ब्राह्मणानां महानावासः। ततो हि निस्सृता सरस्वतीव ब्रह्मलोकादगस्त्यमूर्तिरिव पीतोद्गीर्णगम्भीरशब्दसमुद्रा दा क्षणा दिशमनुगृह्णन्ती सकलांकतवसिद्धान्तप्रपञ्चमूलन मूलदेवेन सख्युरचलस्य कृते निवेशितमचलपुरं नाम गवनोदकपुष्पवासितकलमकाननायासिकभूमौ (१) नगरमपरमिव धरणिगोचरममरलोकम् , आस्पदं पुण्यकर्मणामलघु विविक्तमन्त्र• विस्तारसम्भृतधृतिरधिवसति कुशिकवंशवर्धनी सर्वातिथिरप्रतिग्रहीत्री महत्युदाररूपा ब्रह्मराशिब्रह्मसन्ततिः ।
तत्रोदपादि भगवतो विधिवदाहृतसर्वसप्ततन्तुरूपियो नारायणस्वामिनो नाभिपद्म इव ब्रीकधाम दामोदरस्वामिनामा तेजो(यमः? मयः) कुमारः । स यौवनारम्भ एवातिसुभगाकृतिरकृतकवाक्यदर्शितपुण्यसद्भावया सर्वाङ्गमनो
1.
A reads मेणापन्न. page 6.