SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पुरुषप्रधानसंयोगः । [ सां. त. तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥ “ तस्मात्" इति । यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणे युक्तितः सिद्धे, तस्मात् (१३६ ) इष्टापत्तिः। धान्तिरियमित्यर्थः । “लिङ्गम् ' महदादिसूक्ष्मपर्यन्तं सामानाधिकरण्यज्ञानं वक्ष्यति । भ्रान्तिबीजम् तत्संयोगः तत्सविधानम् । भ्रान्तिविलसितम् ॥ तिरोहितार्थमन्यत् ॥ २० ॥ 'तत्संयोगात् ' इत्युक्तम् , न च भिन्नयोः संयोगोऽपेक्षां विना, न चेय(१३७) पुरुषप्रधानयोः मुपकार्योपकारकभावं विनेत्यपेक्षाहेतुमुपकारमाहसंयोगे शङ्का ॥ पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य । पैङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ " पुरुषस्य " इति । प्रधानस्येति कर्मणि षष्टी । प्रधानस्य सर्वसाधारणस्य - यद्दर्शनं पुरुषेण तदर्थम् । तदनेन भोग्यता प्रधानस्य पुरुषापेक्षा-भोक्त्रपेक्षा ॥ दर्शिता । ततश्च भोग्यं प्रधान भोक्तारमन्तेण न " सम्भवतीति युक्ताऽस्य भोक्त्रपेक्षा ॥ "पुरुषस्यापेक्षा दर्शयति-" पुरुषस्य कैवल्यार्थम्" इति। तथाहि भोग्येन प्रधानेन सम्भिन्नः पुरुषस्ततं दु:खत्रयं स्वात्मन्यभि( १३९ ) कैवल्यार्थ मन्यमानः कैवल्यम् प्रार्थयते। तच्च सत्वपुरुषान्यतापुरुषस्य प्रधानापेक्षा ॥ ख्यातिनिबन्धनम् । न च सत्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षते अनादित्वाच्च संयोगपरम्पराया भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यत इति युक्तम् ॥ १. गुणानां कर्तृत्वे उदासीनोऽपि पुरुषः कर्तेव भवति । न च स तस्वतः कर्तेत्येवकाराभिप्रायः । २. कारिकास्थाः पदार्थाः स्पष्टा एवेत्यर्थः । ३. पुरुषो निष्क्रियत्वात् ' पङ्गुः,' प्रधानमचेतनत्वात् 'अन्धम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy