SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो तदेवानुमानमेतत्तसहायं वहिःसत्वमनुमापयिष्यतौति यतोलाघव-गौरवतर्काणां विपर्यायापर्यवसायिनामेव प्रमाणसहकारित्वमत एव प्रत्यक्ष-शब्दादावपि इति, 'उपजौय' हेवकत्य, 'अनुमानादपौति तथाचैतस्याल्पत्वात् तर्कत्वमपि कल्यत इति भावः । 'एतावतकेति एतावल्लाघवज्ञाने- : नेत्यर्थः, 'वहिःसत्त्वं कन्पयति' वहिःसत्त्वं निश्चाययतीत्यर्थः, मरणे च लाघवज्ञानाभावान्न तनिश्चयं जनयतौति भावः। एतेन 'किश्चेत्युक्तमपि प्रत्युक्तं, तसंशायकमात्रस्य तनिश्चायकत्वे एवातिप्रसङ्गात् महकारिविशेषमासाद्य तस्य तथात्वे चातिप्रसङ्गाभावादिति हदयं । न च संशयसामान्यमेव कल्पकमस्तु कृतं यथोक्तसामग्रौप्रभवत्वविशेषणेनेति वाच्यं । अयं पुरुषो न वेति संशयस्थापि पुरुषत्वं भावरूपं तदभावापेक्षया लध्विति तर्कसहकृतस्य पुरुषत्वकल्पकत्वापत्तेः अत्रेटापत्तौ न देयमेवोक्तविशेषणमिति ध्येयं । 'विपर्ययेति, 'विपर्ययः' गर्वर्थविपरीतः लाघवार्थ इति यावत्, 'तदपर्यवसायित्वे तदनुमितिजनकसामय्यसहकतत्वे, 'आभासत्वं' लघ्वर्थनिश्चयाजनकत्वं, ईश्वरानुमानादौ लाघवज्ञानस्य लघ्वर्थानुमितिजनकसहकारेण लध्वनिश्चयजनकत्वदर्शनादिति भावः। 'तत्पर्य्यमाने चेति देवदत्तएतत्कालौनवहिःसत्त्व-मरणान्यतरप्रतियोगी एतत्कालीनप्रागभावाप्रतियोगित्वे मति टहासत्त्वादित्यनुमितिजनकसामय्याः सहकारित्वे चेत्यर्थः, 'विपर्ययेति खयर्थानुमितिजनकसामय्यमहकतामामपौत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy