________________
(५०) विशेषतश्च क्षीणकर्म पानां सिंद्वानां भगवतामूर्ध्वगमनस्वभावत्वादेवोव लोकाग्रं यावद्गतिः प्रवर्तते । ततश्च सुष्ट्रच्यते 'लोकाग्रमुपगतेभ्य' इति । - एते बुद्धत्वाद्या जनानां सिद्धत्वाऽविनाभूता इति तद्ग्रहणेन तेऽपि गुणा उक्ता एवेति, उपलक्षणदृष्टया बुद्धत्वाद्याख्याने नाऽसङ्गतमिति ।
नवहतां भगवतां श्रुतादिकर्तृत्वात् स्यादेव भयत्राणादिकारकत्वेन शरण्यत्वाच्छरणीकरणं, भगवतां सिद्धानां तु सर्वदाऽकरणवीर्यत्वात् न किमपि भवभयार्तानां त्राणं विधातुं शक्तास्ततश्च तेषां शरणीकरणं न कमप्यर्थं पुष्णातीति चेत् ?, सत्यं ! परं जगति ये सर्वे धर्मास्ते आस्तिकानां मोक्षपर्यवसाना एव । अत एवं त एवाऽऽस्तिका उच्यन्ते, ये जीवानां कथञ्चिदस्तित्वं नास्तित्वं श्रद्दधानाः कर्मगा कर्तृतां भोक्तृतां मोक्षस्य सत्त्वं तदुपायानां च सत्त्वमात्मरुच्याऽभिप्रयन्ति, तथा च मोक्षश्रद्धानमूलमेवास्तिक्यं, ततो मोक्षपर्यवसानफलाः सर्वे आस्तिकधर्मा इत्युच्यमानं युक्तिसङ्गतमेव ।
..मोक्षश्च तत्त्वतः स एवोच्यते-यत् अनावर्तनरूपेण सिद्धानां सिद्धत्वेऽवस्थानं, तथा च सर्वेऽप्यास्तिकाः सिद्धानामपुनरावृत्तिभावेन सदा चिदानन्दरूपतया चाऽवस्थानमपेक्षयैव प्रवर्तन्ते प्रवर्तिष्यन्ते चेति सिद्धाः सर्वेषामास्तिकानां स्वसत्यश्रद्धानद्वारेण शरणभूता एव ।
धर्मनेतृणां धर्मस्यापि सिद्धिपर्यवसानफलसत्त्वेनाऽविप्रतारकत्वमुपकारकत्वं च, नाऽन्यथा । अत एवान्यत्रात्मन एवाव्याबाधज्ञानमयत्वादिस्वरूपमाख्याय भगवतां सिद्धानां नमस्कारे अविप्रणाश एवं हेतुतया गीयते। तथा च सार्यनन्तभङ्गेन सच्चिदानन्दपूर्णतया तेषां भगवतामवस्थानमेव शरण्ये कारणम् । ततश्च सुष्ट्येवोक्तं यदुत-" सर्वथा कृतकृत्याः सिद्धाः,” “शरणं मे भवन्त्वि "ति त्वनुवर्तत एव ।
न च वाच्यं तद्वदेव शरणमित्यपि पदं न वाच्यं, प्रागुक्तत्वात्तदप्यनुवर्तनीयम् । तत्राऽत्रापि च शरणस्य मुख्यतया विधेयत्वादध्यवसायशुद्धये च तदुक्तेरावश्यकत्वात् , परमपदस्य मार्ग देशितवन्तो भगवन्तोऽर्हन्तस्ततो यथावस्थितमोक्षान्तसप्ततत्त्र्याः श्रद्धानमवाप्नुवन्ति, तत्प्राप्तरेव सम्यग्दृशः सन्तों भव्या जैहत्येवं संसारंगतं चित्तपातिवं, एतदेवं च मोक्षबीजम् । यतोऽलब्ध्वा कार्यपातितामभव्या अपि, केचन भव्या अपि अनन्तशो भगवंदुक्ताऽनुष्ठानपरायणा जाता, जायन्ते, भविष्यन्त्यां भविष्यन्ति, पर नैतावद्भिरप्यनुष्ठानैर्भद्रास्ते मोक्षमार्गमयवाप्नुवन्तोऽवाप्नुवन्ति अवाप्स्यन्ति वा । लब्धे च मोक्षवीजे न कोऽपि अपार्धपुद्गलावर्तादधिक संसार बम्भ्रमति, किन्तु अवश्यमपवर्गमेवाप्नुवन्तीति ।
चेतःपरावर्तका भगवन्तोईन्त इत्यवश्यं शरण्याः । जाते च तथाविधे चित्तपरावर्ते सिद्धा
Our
-
1Tmri
कत्वान
भगवन्तः साध न्तकालीनाऽनन्तपूर्णताधारणादिरूपतया ज्ञ
.
ता.
द्वयेप्येत
श्रितसः पर
कारिणः
( मावत पर
परमपचनस्य