________________
H
॥ णमो त्यु णं समणस्स भगवओ महावीरस्स ॥ ॥ पावपडिग्घाय-गुणवीयाहाणसणियं पढमसुत्तं ॥
HAPA
AMIL
मू०॥णमो वीअरागाणं सवण्णूर्ण देविंदपूइयाणं
जहठिययत्थुवाईणं तेलुक्कगुरूणं अरुहंताणं भगवंताणं॥
वीरं विश्वेश्वरं नत्वा, बालानां वोधहेतते ।
टिप्पणं पञ्चसूत्रस्य, यथावगममुच्यते ॥१॥ वा० भगवद्भ्योऽर्हद्भ्यो नम इत्यभिधेयं, एकभविक-बद्धायुष्काणामर्हतां न व्यवहारेण सर्वेषां नमस्करणीयतेति मोक्षगाम्यन्त्यभवस्थाऽर्हद्ग्रहाय 'भगवद्भ्य' इति, भगवत्ता च शक्रस्तवप्रोक्ताऽऽदिकरत्वाऽऽदिगुणसम्पत्षट्ककलितत्वेन समग्रैश्वर्य-रूप-यशः-श्री-धर्म-प्रयत्नाऽतिशयवत्वात् ।
"एवं भगवत्तयाऽहतो नत्वा परमेष्ठितया नमनार्थ भावाऽऽर्हन्त्यरूपमतिशयचतुष्कं 'वीतरागेभ्य' इत्यादिभिर्दर्शितम् , स्वसमये एवमेवातिशयानां भावार्हन्त्यनिबन्धनानां भावात् क्रमश्चतुर्णी,
न हि क्षपिते मोहरूपे क्षपकश्रेणिप्राबल्येनापाये मस्तकशूचिनाशे तालनाशवद् ज्ञानावरणीयादीनां त्रयाणां नाशोऽसम्भवी चिरकालान्तरितो वेत्यवश्यं वीतरागत्वेनावाप्तापायापगमातिशया अर्हन्तः सर्वज्ञा एव भवन्ति, तथापि जिनभवे उपशमश्रेणेरभावात् क्षपकच्छदमस्थवीतरागा एवार्हन्त इति वीतरागावस्थाप्राप्तेरनन्तरमवश्यं सर्वज्ञा एव ते इति 'सर्वज्ञेभ्य' इत्यनेन द्वितीयो ज्ञानातिशयः प्रतिपादितः।
सार्वश्यं चाभ्युपगन्तुमर्हा जैना एव, यतः प्राक् तावद् ते जीवं ज्ञानमयमभ्युपगच्छन्ति, ज्योतिर्मय इव प्रकाशः । अपरे तु शरीरेन्द्रियविषयोत्पन्नस्य ज्ञानस्याधिकरणमात्मानमभिमन्यन्ते, न चाऽनन्तेनाप्यनेहसाऽनन्ताऽनन्तसङ्ख्याकसर्वद्रव्यक्षेत्रकालभावानां बोधो भवितुमर्हति, न चाऽलौकिकप्रत्यक्षगम्या न्य-(अ)शब्द-वर्ण-गन्ध-रस-स्पर्शाः पदार्था गम्या इन्द्रियाणां । एवं च यदपरैरात्मादि अतीन्द्रियं वस्तु प्रत्यपादि स्वस्वशास्त्रेषु, तत्सर्वं भगवद्भिर्जिनेश्वरै रेवालौकिकप्रत्यक्षोत्तमकैवल्यधारि