SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (४८) वद्धलक्षो ह्यनाशंस, आयंतार्थी लभेत तं । सम्यक् प्रवर्त्तते साधु-र्धीराणां शासनं यदः ॥ ११२ ॥ अनियोगोऽन्यथाऽविधिना गृहीतो यथा । ध्रुवं च तदनारम्भान्, न किञ्चिचेद् विराधना ॥ ११३ ॥ . देशनायामत्र दुःखं, मार्गस्य त्ववधारणा | स्याच्चास्याऽप्रतिपत्तिस्त नाऽधीतं ह्यर्थवर्जितम् ॥ ११४॥ मार्गानुसारिणां नैषा हेतुरर्थस्य विप्लवे । सूत्राऽऽरम्भाद् ध्रुवं मार्ग- देशनेऽभिनिवेशयुक् ॥११५॥ सामान्येन क्रियारम्भः, प्रतिपत्तिस्तदा फलं । लेशेनाऽवगमो बीज-युक्तोऽयं मार्गगामिनः ॥ ११६॥ आपातेऽपाय बहुलो, निरपायः श्रुतोक्तकृत् । समितः पञ्चभिर्गुप्तिस्त्रिभिस्ता अष्टमातरः ॥ ११७ ॥ . प्रवचनस्य तत्त्यागोऽ व्यक्तस्यानर्थकृन्मतः । जनन्या वियुतो बालो, यथाऽनर्थपदं तथा ॥ ११८ ॥ व्यक्तोऽत्र केवली साम्य-फलभूत इति सुधीः । परिज्ञया द्विविधया, सम्यगेतद् विलोकयेत् ॥ ११९ । दीपं द्वीपं च स्पन्दन्त-मस्थिरं प्रोञ्छ्य शक्तितः । यतेताऽस्पन्दनस्थेमार्थ-भ [-भभ्रान्तमनुत्सुकः ॥१२०॥ अतिचारैरसंसक्तं, योगमाराधयेततः । - सिद्धेरुत्तरयोगानां मुच्यते पापकर्मभिः ॥ १२१ ॥ आभव शुध्यमानः सन्नारोहति शुभां कियां । शमसौख्यं लभते द्रागपीडस्तु तपोयमैः॥१२२॥ व्याधिप्रतिक्रियान्याया न व्यथाऽस्य मनः श्रयेत् । परीषहोपसर्गाणां; भवरोगप्रमाथिनी ॥ १२३॥ " महाव्याधियुतः कश्चिद् वेदनाऽऽर्त्तः स्वरुपवित् । निर्विण्णस्तत्त्वतस्तस्मात् सुवैद्यवचनेन तम् ॥ १२४ ॥
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy