SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ( ४१ ) कल्याणमित्रसाधूना-मेभिर्मेलः सदाऽस्तु मे । बहुमानोऽत्र मे भूयान् मोक्षवीजमितोऽस्तु च ॥ २२॥ प्राप्तेष्वेतेषु सेवार्ह, आज्ञाहः परिचारकः । पारगोऽनतिचारः स्यां, शक्त्या सुकृतमाश्रये ॥ २३ ॥ सर्वेषामतां मन्ये, आर्हन्त्यं सिद्धाभावतां । सिधानांसूरीणां शंसा-म्याचाराणां प्रवर्त्तनम् ॥२४॥ वाचकानां सूत्रदानं साधूनां मोक्षचेष्टितं । मोक्षसाधनयोगं च, श्रावकाणां दिवौकसाम् ॥ २५ ॥ जीवानां मोक्तुकामानां कल्याणाशयिनां सदा । मार्गसाफल्ययोगोऽस्तु, ममैषाऽस्त्वनुमोदना ||२६|| सम्यगू विधियुता शुक्लाSS-शया प्रवृत्तिसंयुता । गुणयुक्ताऽनतिचारा, सामर्थ्यादर्हदादिकान् ॥ २७ ॥ " अचिन्त्यशक्तियुक्तास्ते, भगवन्तो गतद्विषः । सर्वज्ञाः पूर्णकल्याणाः, सत्त्वानां सिद्धिहेतवः । २८ मूढः पापोऽनादिमोह- वासितोऽज्ञो हिताऽहिते । स्यां ज्ञोऽहितान्निवृत्तः सन् प्रवृत्तो हितवर्त्मनि ||२९|| - " उचितप्रतिपत्या स्या- माराधकः समात्मसु । इच्छामि सुकृतं सम्यक् पठतः शृण्वतस्त्विदम् । ३०|| भावयतः श्लथा बन्धा, अशुभा, निर्गतास्ततेः । विषं मन्त्राद्युपहतमिव सामर्थ्य वञ्चिताः ||३१|| अल्पफलाः स्वपनेया, अपुनर्भाविनः पुनः । आक्षिप्यन्ते सत्कृतानि, पोष्यन्ते पूर्त्तिमियति ॥ ३२॥ सानुबन्धानि चाऽतः स्यु-र्वराणि श्रेष्ठभावतः । फलेंन्नियमतः सम्यक्, प्रयुक्तमिव चौषधम् ॥३३॥ पुण्यं शुभफलं च स्या- दत्तो हित्वा निदानकम् । एतत्कार्यं निरोधोऽतः, शुभानां बीजमुत्तमम् ॥ ३४ ॥
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy