SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (२१) एव यावती शक्तिः स्वस्य स्यात्तां समालोच्य विद्यमानायाः स्वशक्तेरगूहनेनानतिक्रमेण चाणुव्रतानि प्रतिपद्येताऽवश्यमिति च दर्शितं । अन्यच्च यथाशक्तीतिवचनेनाऽनुव्रतानां सहभावस्याऽनियमो दर्शितः । यथा हि महाव्रतानामष्टादशानां शीलाङ्गसहस्राणां परस्परमविनाभावो, नाऽत्र तथेति । अत एव निर्युक्तौ — पण चउक्कं च तिगं दुर्गं च एगं च गिण्हइ वयाई 'ति, अनुव्रतानां ग्रहणेषु *विकल्पा १६८०९ व्रतग्रहणभङ्गाः दर्शिताः परमत्र.. विकल्पो गृहीतः प्रथमतया स प्रायेण देशविरतानां पञ्चाणुव्रतान्यावश्यकानीति ज्ञापनार्थं । पञ्चकस्य " अन्यच्च 'अहवा वि उत्तरगुणे' त्तिवचनात् दिक्परिमाणाऽऽदीन्नामुत्तरगुणत्वमाविष्कृतं । उभ्यते पार्थक्येन “पंचाणुवइयं सत्तसि कखावइयं सम्मत्तमूलं गिहत्थधम्मं " न वृत्तिकारा अपि देश-सर्वोत्तरगुणानभिग्रहतयैव व्याख्यान्ति । तथाच मूळव्याख्यापेक्षयाऽनुव्रतानां पञ्चानां पाश्चात्यव्याख्यापेक्षया तु द्वादशानामपि व्रतानां विकल्पेन ग्रहणं भवति । किञ्च पञ्चानामनुव्रतानां यावज्जीवतया ग्रहो भवतीति 'पंच अणुव्वयाई जावकहियाणी' त्युक्तं । ततश्च यत्किञ्चित्कालं यावत्तेषां ग्रहणे देशमूलोत्तरगुणानां च ग्रहणेऽपि नाऽभिमता देशविरतिमत्ता, अतो मौनैकादश्या दिवस देवो दैशिकपौषधादिवतविधायका अपि श्रीकृष्णादयः केवलसम्यग्दर्शनधरतयां निर्दिष्टा आवश्यकवृत्त्यादिषु । तत्त्वतः पञ्चानामणुव्रतानां यावत्कथिकतया ग्रहणं देश विरतानामावश्यकं परं पञ्चानां द्वादशांनां च ग्रहणं श्रावकाणां वैकल्पिकमिति योग्यमुक्तं यथाशक्ति इति । यथाशक्ति व्रतानां ग्रहणमप्युचितविधानेन, नतु यथाकथञ्चित्, यतः सर्वविरतिं प्रतिपित्सोंर्निग्रथभावमभ्युपजिगमिषोरपि व्रतस्य प्रतिपत्तावादौ श्रीवीतरागाणां यथाविभवं पूजनं साधूनां सत्कार - करणं च विधेयमस्ति । यत रक्तं श्रीपञ्चवस्तुप्रकरणे श्रीहरिभद्रसूरिभिः सर्वविरतिग्रहण विधौ 4 'अह सो करिऊण पूअं जहविभवं वीयरागाण । साहुणं च उवउत्तो' त्ति, यदि सर्वग्रन्थत्यागमयीं सर्वविरतिं प्रतिपित्सुर्यथाविभवं वीतरागाणां पूजादि कुर्यात्तर्हि गृह * आवश्यकवृत्तावप्युक्तमस्तियत् " सोलह चेव सहस्सा अहेव सया हवंति अहिया । एसो उवासयाणं, वयगहणविहा समासेणं ॥ "
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy