SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (९३) त्यभिधीयते तथापि तद्भेदा येऽनशनादयस्ते साम्परायिकस्य पापस्यैव क्षपकाः । संवरोऽपि पापानामेव प्राणवधादीनामवरोधेन मन्यते इति प्रस्तुते अशुभकर्माऽनुबन्धानां शिथिलीभवनाद्याम्नातं । तत्र प्रदेश-स्थिति-रसादिभिरल्पीभवनं श्लथीभवनं । . . , . जैनप्रवचने कर्म द्वेधा-प्रदेशरूपं रसरुपं च, तत्र प्रदेशकर्म त्ववश्यमेव भोक्तव्यं, तदपेक्षयैवोच्यते'कडाण कम्माण ण मोक्खो अत्थि' इत्यादि, रसकर्म तु तपःस्वाध्यायादिभिः क्षयमप्युपयाति, यदपेक्षयोच्यते 'तवसा झोसइत्ते 'त्यादि । तदत्र रसकर्मणां यः क्षयः स परिहाणिरिति । यदा च प्रदेशै रसैश्चोभयथाप्यशुभकर्माऽनुबन्धा अपयान्ति तदा क्षीयन्ते इत्युच्यन्ते । एवं च प्रस्तुतस्य प्रणिधानसूत्रस्य पाठादेः पाक्षिकं फलमुपपादितं, ये कर्माऽनुबन्धा अनिकाचिता भवन्ति, तद्विषये अपवर्तनाऽऽदीनां करणानां प्रवृत्तेः स्यादुक्तं फलम् , परं ये निकाचिता अशुभकर्माsनुन्धास्तद्विषये अपूर्वकरणाऽतिरिक्तं न किञ्चित् प्रवर्तते, न चाऽपूर्वकरण-द्वयादेकतरमपि पठनाऽऽदिकाले नियतं भवतीति तादृशे निकाचिते अशुभकर्माऽनुबन्धमधिकृत्य प्रस्तुतप्रणिधानसूत्रस्य पठनादीनां फलमाह-'निरनुबन्धे. वे 'त्यादि । .: अनुवन्धशब्दोऽत्र न पूर्ववत् सामान्यबन्धवाचकः किन्तु पारम्पर्यवाचकः तत्राऽनुरर्यहीनः, अत्र तु सातत्याऽर्थत्वेन पारम्पर्यायः । कर्मणां च विशेषेण स्वभावोऽयं यत् पारम्पयमनुबध्नन्ति, तत एव चाऽनाभोगेनापि प्रतिसमयं जीवानां योगेन गृहीतानां कर्मणां सप्तधा बन्धः, तत्रापि अशुभानां विशेषेण निकाचितानामशुभकर्मणां विशेषेण पारम्पर्य भवति । श्रूयते च मरुभूति-कमठाऽऽदीनां वैरानुबन्धपारम्पर्यम् , अत आह प्रणिधानसूत्रस्यैतस्य पठनादेरशुभानि निकाचितानि कर्माणि पारम्पर्येण हीनानीति निरनुबन्धानि स्युरिति ।। .. वर्तमानान्यपि निकाचितान्यशुभकर्माण्याश्रित्याह-'भग्गसामत्थे 'त्ति । ज्ञाननादोनां कर्मण यद्यत् ज्ञानावरोधादिसामर्थ्य तत् सर्वं सामर्थ्य पठनाद्येतस्य भनक्ति । कुतः पुनरेव मित्याह- सुहपरिणामेणं 'ति । : प्राक् तावत् प्रणिधानसूत्रस्यैतस्य पठनादेरशुभकर्मणां शिथिलीभवनायुक्तं, तत्राप्येतदेवैतजन्यः शुभः परिणामः कारणं, तत्राऽर्थगम्य एषः। अत्र तु निकाचितानां सामर्थ्यभनाय विशेषतस्तस्य कारणत्वात् साक्षादुक्तिः । . . सत्सु कर्मसु विबाधनस्वभावेषु कथं स्याद् भग्नसामर्थ्यमिति दृष्टान्तेन तद् दृढयति 'कडगवद्ध विव विसे 'ति । .. यद्यपि विषस्य लेशोऽपि प्राणवियोजनस्वभावः, सहस्रवेधिनस्तु तस्य किं हि वाच्यं, परं तादृशमपि विषं प्रतियोगेन. मन्त्रेण वा तथा प्रतिहतसामयं भवति, यथा यत्र तत्र सङ्क्रान्तपूर्व तत्रैव
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy