SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ . तरवार्थविपरणार्थदीपिका । पंचविशत्तममृ० टी०, : ३९१ : केवलज्ञानं केवलज्ञानपर्यायान् वाऽऽहाय सर्वसंसारिषु, शुद्धत्वं समर्थनीयं स्यात्, तत्र फर्मोपाधिनिरपेक्षत्वं विषये काँपाधिप्रयुक्तभेदग्रहाविषयत्वम् , तच्च यधपि भेदग्रहप्रतिपक्षसामयनुप्रवेशविधया द्रव्ये निरुपचरितसंग्रहेण प्रतिपादयितुं शक्यम् , तथापि पर्याय न कथञ्चित्, पर्यायस्य संग्रहाविषयत्वात्, पर्यायनये च भेदस्यैव पुरःस्फूर्तिकत्वात् सदृशापरापरक्षणोत्पत्त्या भेदबुद्धितिरोधान तु कोपाधिसाक्षेपतामेव समर्थयेत्, न तन्निरपेक्षताम् , उपपलवावस्थायां सहशापरापरक्षणानां कर्मसापेक्षाणामेवोत्पत्तेः, न चोपलवानुपप्लवसाधारणं सादृश्यमेकमस्ति, विसमागपरिक्षयादेव मोक्षप्रतिपादनात्, संग्रहानुगतीकृतविषयपुरष्कार च न शुद्धः पर्यायनयः समर्थितः स्यात् । भाविनि वर्तमानोपचाराश्रयणे च नैगमव्यवहारावाश्रितौ भवेयाताम् , न चैवं कथमपि प्रत्युत्पन्नपृथिवीकायादिस्पादिपरिच्छेदव्यक्तयः केवलज्ञानं केवलज्ञानपर्यायान् वाऽऽदाय सर्वसंसारिषु शुद्धत्वं समर्थनीयं स्यादिति-केवलज्ञानरूपद्रव्याश्रयणेन मत्यादिसर्वज्ञानानामभिन्नत्वात् केवलज्ञानशुद्धत्वेन शुद्धत्वं सर्वथा कर्मोपाधिविलयानन्तरमाविकेवलज्ञानपर्यायाणामाश्रयणेन तच्छुद्धत्वात् पूर्वपूर्वमत्यादिज्ञानपर्यायाणामपि फेवलज्ञानरूपद्रव्यपर्यायरूपतयाऽभेदाच्छुद्धत्वं वा समर्थनीयं स्यादि . त्यर्थः । न तत्समर्थनं समीचीनतामञ्चतीति प्रतिपादनायाह-तत्रेत्यादि । विषय इतिज्ञानस्वरूपविषय इत्यर्थः । उपपलवावस्थायामिति-सरागचित्तसन्तत्यवस्थायामित्यर्थः । विसभागपरिक्षयादेवेति-विसभागाः विसभागसन्ततिरूपाः केवलज्ञानपर्यायापेक्षया मत्यादिज्ञानपर्यायाः, विभावपरिणतिरूपत्वात्तेषाम् , तत्परिक्षयादेव तानाशादेवेत्यर्थः । मोक्षप्रतिपादनादिति पर्यायनयेनेति शेषः । संग्रहानुगतीकृतविषयपुरस्कारे चेति. संग्रहनयाभ्युपगतानुगतधर्मेण केवलज्ञानपर्यायैस्सहाऽभेदीकृतानां मत्यादिज्ञानपर्यायाणां केवलज्ञानपर्यायशुद्धत्वन शुद्धत्वाभ्युपगम इत्यर्थः । भाविनि वर्तमानोपचाराश्रयण इति-भाविनि केवलज्ञाने वर्तमानत्वोपचारेण मतिज्ञानादिकालेऽपि केवलज्ञानस्य सद्भावातछुद्धत्वन तच्छुद्धत्वाश्रयण इत्यर्थः । तत्र दोषमाह नैगमव्यवहारावेपाश्रितो भवे. यातामिति-तन्मत एपोपचाराश्रयणस युक्तत्वादिति भावः । अयमभिप्रायः शुद्धसंग्रहो द्रव्यमेवाभ्युपगच्छति, अतोऽस्याभेदज्ञानसामग्रीघटकत्वेन भेदज्ञानपरिपन्थित्वात् केवलज्ञानस्य द्रव्यरूपत्वाभ्युपगमेन मत्यादिज्ञानानामपि भिन्नानामनाश्रयणेनाभेदाश्रयणा स्व. विषयकेवलज्ञाननिष्ठकोपाधिप्रयुक्तभेदग्रहाऽविषयत्वलक्षणं शुद्धत्व सम्भवति, अतस्तदाश्रयणेन सर्वज्ञानानां यद्यपि शुद्धत्तमुपपादयितुं शक्यम् , तथापि त छक्त्यैव, न तु व्यक्त्या, यतस्स ग्रहनयेन केवलज्ञानस्य वर्तमानमत्यादिज्ञानकाले शक्तिरूपेण सत्वेऽपि न तत्तन्मत्यादिज्ञानव्यक्त्यात्मनावस्थानमिति तमित्यादिज्ञानव्यक्तीनां व्यक्त्यात्मना संग्रहनयो न कथा मपि - शुद्धत्व प्रतिपादयितुं - शक्तः, पर्यायनय केवलज्ञानं पर्यायरूपतयैवाऽभ्युपगच्छति, तद युपगमश्च पूर्वोत्तरज्ञानानां भेदाश्रयणेनैव, भेदश्च केवलज्ञानपूर्वभाविनां मत्यादिज्ञानानां कर्मोपाधिप्रयुक्त ५१, नात स्वविषयज्ञानगतकोषाधिप्रयुक्तभेदग्रहाविषयत्वं शुद्धत्वं तत्र
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy