SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ तत्वार्थविवरणगूढार्थदीपिका ! डा० सू० टी० प्रयत्नः । अन्यस्य प्रत्यक्षत्वं कुत इत्याशङ्कयाह- अतीन्द्रियत्वात् । योगिसाक्षात्कारानुरोधेनात्माभिमुखत्वलक्षणमतीन्द्रियत्यमेव प्रत्यक्षलक्षणमभ्यर्हितमिति भावः । तत्प्रमाणे इति द्वित्वसंख्यां विभागेनोपदर्थं प्रमाणशब्दार्थं कथयति-प्रमीयन्ते इति, प्रमीयन्ते यथावन्निश्रीयन्तेऽर्था जीवादयो यैस्तानि प्रमाणानीति करणे ल्युट्, आहितप्रधान कारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तिप्रयुक्तस्य साधकतमत्यविवक्षात्रशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमस्तुत इति टीकाकृतः । एवं सति लब्धीन्द्रियं प्रमाणं स्यात्, तच्चायुक्तं, शक्तिरूपस्य तस्य कार्यार्थापत्त्यैव गम्यत्येन 'स्वपरूयवसायि ज्ञानं प्रमाणम्' इत्यस्य भङ्गापत्तेः, द्रव्यार्थ प्रत्यक्षतायाश्या तिप्रस] कवात्, : २०१ : 1 निश्वयतः, आधे प्रत्यक्षं व्यवहारतः, अन्यदित्यनेन सह प्रत्यक्षमित्येव सम्बध्यते, न परोक्षम्, तथा च ततोऽन्यत् अवध्यादित्रयमेकान्तेन प्रत्यक्षमेवेति योगविभागतो लभ्यत इति तदर्थं "प्रत्यक्षमन्यत्" इति सूत्रकरणमित्यर्थः । अतीन्द्रियत्वादिति - उत्पत्ताविन्द्रयमनोनिरपेक्षत्वादित्यर्थः । व्यवहार प्रत्यक्षत्वे इन्द्रियजन्यस्त्रवनिश्चयप्रत्यक्षत्वे इन्द्रियाद्यजन्यत्वस्यापि प्रयो जकत्वादिति । न च प्रत्यक्षत्वमेवेन्द्रियजन्यतावच्छेदकं लाघवादितीन्द्रियव्यापाराभावेऽतीन्द्रियप्रत्यक्षानुपपत्तिरिति शङ्कनीयम् परेणापीश्वरत्रत्यक्षव्यावृत्यर्थं प्रत्यक्षनिष्ठवै जात्यस्यैथेन्द्रियजन्यतावच्छेदकत्त्रोपगमात्, अस्माभिस्तत्र निश्चयप्रत्यक्ष व्यावृत्यर्थ सांव्यवहारिकत्वाख्वस्य प्रत्यक्ष निष्ठवैजात्यस्येन्द्रियजन्यतावच्छेदकत्वापगमे दोषाभावादिति भावः । " अश व्याप्तौ " अश्नुते व्याप्नोति ज्ञानात्मना सर्वार्थान्, " अश् भोजने " अश्नाति स्वःसमृद्ध्यादीन् पालयति भुङ्क्ते वेति उणादिनिपातनाद् अक्षो जीवः, तम्प्रति साक्षाद्भतं तमेवाभिमुखीकृत्य. प्रवृत्तमिति प्रत्यक्षशब्दस्य वास्तविकार्थमनुसृत्याह योगिसाक्षात्कारेत्यादि । अवच्छेदिका शक्रिर्थस्येति- अर्थस्यावच्छेदिका निश्चायिका शक्तिः, अर्थनिश्चयानुकूलशक्तिरिति यावत् । शक्तिरूपस्य तस्य कार्यार्यापत्त्यैव गम्यत्वेनेति-शक्तिर्हि कार्यानुमेया, तस्या अतीन्द्रियत्वात् न हि केनापि चर्मचक्षुपा वहन्यादिगतरूपमिव तद्गतशक्तिरपि साक्षाद्दृश्यत इत्यर्यग्रहणशक्त्यात्मफलब्धीन्द्रियमन्तरेण प्रमात्मकत चदर्थविषयकज्ञान कार्यानुपपत्तिरूपलिङ्गेनैव शक्तिरूपस्य प्रमाणस्याऽनुमीयमानस्येनेत्यर्थः । भगापत्तेरिति उक्तसूत्रेण तादृशज्ञानं प्रमाणमित्युक्तम्, न तु शक्ति: प्रमाणमित्यभिहितम्, ज्ञानश्च स्वप्रका शत्वा तदात्मकप्रमाणं स्वेनैव सिद्ध्यति, न त्वनुमानेनेति तद्विरोधस्स्यादित्यर्थः । किञ्चार्थग्रहणश-क्तिलक्षणस्य लब्धीन्द्रियस्य प्रमाणत्वे तस्योपयोगात्मना करणेन फले व्यवथानात्, सन्निकर्षादिबंदुपचारत एव प्रमाणत्वमभ्युपगतं स्यादिति, द्रव्यार्थतः प्रत्यक्षाग्रहणशक्तिः, पर्यायार्थतस्तु परोक्षेत्यभ्युपगमे दोषमाह-द्रव्यार्थप्रत्यक्षतायाश्चातिप्रसज्ञ्जकत्वादिति-अयमर्थ:-- स्वपरपरिच्छित्तिरूपात् फलात्कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तजननशक्तिरपि પરિઋિષતિ દૂન્વાર્યતા પ્રત્યક્ષુતિ વેત્, વર્ધમÄનામતતાનાાતવર્સેનાનીચાણામ २६
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy