SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ : 260 : तत्वार्थविवरणदार्थदीपि। १० स० टीभाष्यकार स्थापि योगविभागादिन्द्रियजन्यज्ञानस्य सिद्धा प्रत्यक्षता, स चैवं योगो विभजनीयः, आधे परोक्षं निश्चयतः, प्रत्यक्ष चाद्ये व्यवहारत इति ॥ ११ ॥ परोक्षं दर्शयित्वा प्रत्यक्षं दर्शयति ॥सूत्रम् प्रत्यक्षमन्यत् ॥ १॥ १२ ॥ (भाष्यम् ) मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञान तत्प्रत्यक्ष प्रमाणं भवति । कुतः ? । अतीन्द्रियत्वात् । प्रमीयन्तेऽस्तैिरिति प्रमाणानि || अत्राह-इह अवधारितं द्वे ५५ प्रमाणे प्रत्यक्षपरोक्षे इति, अनु. मानोपमानागमार्थापत्तिसम्भवाभावानपि प्रमाणानीति केचिन्मन्यन्ते, तत्कथमेतदिति ? । अत्रोच्यतेसर्वांग्यतानि मतिश्रुतयोरन्तभूतानीन्द्रियार्थ सन्निकर्वनिमित्तत्वात् । किं चान्यत्-अप्रमाणान्येच वा, सुतः ? । मिथ्यादर्शनपरिग्रहाद्विपरीतोपदेशाच्च । मिथ्यादृष्टहि मतिश्रुतावधयो नियतमझानमेवेति । वक्ष्यते । नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा परस्ताद्वक्ष्यामः ।। अत्राहउक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य तानि विधानतो लक्षणतश्च परसाद्विस्तरेण वक्ष्याम इतिः। दुच्यतामिति । अत्रोच्यते ॥ (यशोल्टीका) प्रत्यक्षमन्यदिति । अवधिदर्शनपूर्वकं व्याचष्टे । मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानम् अवधिमनःपर्यायकेवलभेदात् तत् प्रत्यक्ष प्रमाणं भवति, अवधारणपरत्वाद्वाक्यस्यैकान्तेन प्रत्यक्षमित्यर्थः । आद्ये परोक्षमित्यत एवार्थादवशिष्टस्य प्रत्यक्षत्वलाभे नियमार्थ योगविभागार्थ चायं प्रत्यक्षं, परोक्षवेनाप्यभ्युपगमा, नाप्येकातः परोक्षं, सांव्यवहारिकप्रत्यक्षत्वेनाप्युरकिारात् । उक्तञ्च "एगंतेण परोक्खं लिगिअ-मोहाइअं च पचनसं । इंदिअमणोम जं, तं संववहारपञ्च ॥ ९५ ॥” इति ॥ ११ ॥ ___ द्वादशस्त्रावतरणिकामाह परोक्षं दर्शयित्वा प्रत्यक्षं दर्शयतीति । प्रत्यक्ष मन्यदिति सूत्रेऽन्यदित्यस्योदेशपद त्वेन प्रत्यक्षमित्यस्य च विधेयपदत्वेन प्रमाणमित्यस्यानुवृत्तरत्यत्पदग्राखावव्यादिज्ञानत्रयस्य सिद्धत्वात्तदु६ि२५ तत्र प्रत्यक्षप्रमाणत्वमनेने सूत्रेण विधीयत इत्यर्थः । केनापि पुंसा इदमन्यदित्युक्ते केन काम्यां न्यिदिति परेषा जिज्ञासोत्पत्ते निवृत्तये तदवधिभूतं प्रदर्शनीयम् , प्रत्यक्षमन्यदिति सूत्रेऽप्यन्यदित्यस्य तद्वधिसाकाक्षात्यात्तदुपदर्शनपूर्वकमुक्तसूत्रस्थार्थमाह मतिश्रुताभ्यां यदन्यत् त्रिविधं . ज्ञानमित्यादि । उक्तश्च विशेषावश्यकमाये “ पत्थं च मइ सुयाई परोक्खामियरं च पचनसं ।। ८८ ॥” इति । ननु " आधे परोक्षं" इत्यनेन सूत्रेण मतिश्रुतयोः परोक्षत्व विधाने परिशेषादवक्ष्यादिज्ञानत्रयस्य प्रत्यक्षत्वमायतिमेवेति किमर्थमस्थ सूत्रस्यारम्भ इत्याशङ्काव्यबच्छेदार्थमाह-नियमार्थमिति । एकान्तेन प्रत्यक्षमवध्यादिज्ञानत्रयमेव नान्यमिति नियमाथमित्यर्थः । योगविभागार्थ चेति-आधे परोक्ष प्रत्यक्षमन्यदित्येकसूत्रे मतिश्रुतयोः परीक्षत्वमेव, तदन्यस्य च प्रत्यक्षत्वमेवेति स्यात् , आधे परोक्षमित्येक सूत्रं प्रत्यक्षमन्यदिति द्वितीय सूत्रमित्येवं सूत्रे विभक्ते सति आधे परोक्षमित्येकयोगा, प्रत्यक्षमन्यदित्यत्र प्रत्यक्षं प्रथमस्त्रीपापन आधे इत्यनेनापि सम्बध्यते, अन्यदित्यनेनापि, उत्तप्रकारेण योगविभागे आये परोक्षं
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy