SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अथ तृतीय उन्मेपः इदानीमाणवोपायं क्रमेण प्रतिपादयन् । अतिसंकुचितं तावत्स्वरूपं दर्शयत्यणोः ॥ १ ॥ आत्मा चित्तम् ॥ १॥ विशेषभोग्यशब्दादिवासनादेशरूपितम् । तत्तदध्यवसायादिव्यापारकरणोन्मुग्वम् ।। २ । सत्त्वादिवृत्त्यवष्टम्भि बुधहंकृन्मनोमयम् । चित्तं तत्प्रोक्तचैतन्यस्वरूपानवमर्शनात ॥ ३ ।। तत्तत्कर्मानुसारेण नानायोनीरनुव्रजन् । अततीत्यत एवात्मा ततः सोऽणुः प्रकीर्तितः ॥ ४ ॥ आत्मनश्चातनं नास्ति संविदेकम्वरूपिणः । अतश्चैतन्यमात्मेति धीक्रियात्मकमात्मनः ॥ ५ ॥ विश्वस्वभावभूतं तत्तात्विकं रूपमीरितम् । इदानीमेतदीयेन स्वातन्त्र्येणावभामिनान् ।। ६ ॥ संकोचादणुतायोगाञ्चित्तमात्मेति लक्षितम् । इति पूर्वापरादेशवैषम्यं नास्ति किंचन ॥ ७ ॥ १ ॥ अस्य चिचस्वरूपस्य देहादेरात्मनस्वणोः ।
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy