SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ शिवसूत्रवार्तिकम् | ज्ञानमन्नम् ॥ ६ ॥ ज्ञानं बन्ध इति प्रोक्तं यत्प्राक्कत्परयोगिनः । अनात्मन्यात्मताज्ञप्तिरनं ग्रस्यत इत्यतः ॥ ५६ ॥ किंच यद्यत्प्रकाशात्मस्वरूपामर्शनात्मकम् । ज्ञानं तत्परमाह्लादकारित्वादन्नमुच्यते ॥ ५७ ॥ ६ ॥ [ २० यदा लवहितः शश्वद्योगी नैवं भवत्यसौ । तदा ज्ञानवतोऽप्यस्य समाधानावलेपतः ।। ५८ ॥ विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १० ॥ विद्येति ज्ञानविस्फाररूपा या तु पुरोदिता । शुद्धविद्याथ संहारेऽनुत्थानेऽस्या निमजने ॥ ५६ ॥ तदुत्थस्य क्रमेणाश्चद्विद्यासंहारजन्मनः । स्वप्नस्य भेदनिष्ठस्य विकल्पौघस्य दर्शनम् ॥ ६० ॥ उन्मज्जनं भवत्यस्य प्राग्व्याख्यातोत्तमात्मनः । अवधानेऽवलिप्तस्य साधकस्येति शिष्यते ॥ ६१ ॥ इति द्वितीय उन्मेषः शाक्नोपायप्रकाशकः ॥ १० ॥ इति श्रीकृष्णदासापरपर्यायवरदराजविरचिते शिवसूत्रवार्तिके शाक्तोपायप्रकाशनं नाम द्वितीय उन्मेषः ॥ २ ॥
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy