________________
वृतिः]
।
ये प्रकृते हेत्वर्थे तद्वाचिनः सर्वाः विभक्त्यः प्रायेण भवति । धनेन हेतुना वसति । धनाय हेतवे । धनाद्धेतोः । धन्नस्य हेतोः । धने हेतौ । के हेतुं वसति केन हेतुना । किं निमित्तं । केन निमित्तेन । किं कारणं । केन कारणेन । किं प्रयोजनं । केन प्रयोजनेन । यं हेतुं वसति । येन हेतुना । येन निमितेन । एवं सर्ववचनेषु । काऽपादाने ॥ ४१ ॥ अपादाने कारके का विभक्ती भवति । रथात् पतितः । आचार्यादधीते । चौरेभ्यो बिभेति । अधर्माज्जुगुप्सते । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः, अभिरूपतराः, दर्शनीयतराः ।
1
+ प्यस्खे कर्माधारे ॥ ४२ ॥ प्यांतस्य खे कर्मण्याधारे च का स्यात् । प्रासादात् प्रेक्षते । आस नात् प्रेक्षते । अत एव वचनात् प्यखं दृष्टव्यं । प्यख इति किं ? प्रासादमारुह्य प्रेक्षते । आसने उपविश्य प्रेक्षते । कर्माधार इति किं ! गृहादागसाधीते ।
शब्दार्णवचंद्रिका । २०१ । पा० ४ ।
* दिक्शब्दान्यार्थीचुद्य्वाहीतराराद्वहिर्युके ||४३|| दिक्शब्दैरन्यार्थैरंचुय्वादिभिश्व युक्ते का भवति । पूर्वो ग्रामात् । उत्तरो ग्रामात् । अन्यो देवदत्तात् । भिन्नो देवदत्तात् । प्राग् ग्रामात् । प्रत्यग् प्रामात् । दक्षिणा प्रामात् । दक्षिणाहि प्रामात् । इतरोऽस्मात् । गृहादारात् क्षेत्रं । बहिर्मामात् ।
● वाऽतोऽर्थस्यैः ॥ ४४ ॥ अतसर्थत्यैयोंगे ता भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । उपरि ग्रामस्य । उपरिष्टात् ग्रामस्य । परो ग्रामस्य । * इप् चैनेन ॥ ४५ ॥ एनेन योगे इप् ता च स्यात् । दक्षिणेन विजयार्द्ध वसति । उत्तरेण हिमवंतं । पूर्वेण ग्रामस्य । उत्तरेण ग्रामस्य ।
*का चर्ते ॥ ४६ ॥ ऋते शब्देन योगे का स्यात् इप् च । ऋते धर्मात् कुतः सुखं । चित्र यथाश्रयमृते । न ह्यगं विक्रियते रोगमृते ।
*थक्नाना था च ॥ ४७ ॥
पृथगना
१ शब्दग्रहणेनात्र दिशि दधः शब्दो ते तेन देशकालवृत्तिभिरपि पूर्वादिमियों का भवति । २ पर्याय निसर्गेइयोचणं । तेनेह न दिनदेवदत्तस्य ।
३१
नाभ्यां योगे भा स्यात् का च पृथक् देवदत्तेन । पृथग देवदत्तात् । नाना गुरुदत्तेन । नाना गुरुदत्तात् ।
कविना तिसः ॥ ४८ ॥ बिना योगे तिस्रो भाकेपो भवंति । बिना सम्यक्त्वेन । बिना सम्यक्त्वात् । विना सम्यक्त्वं कुतो मुक्तिः ।
* स्तोकाल्पकृच्छ्रकतिपयात् करणे का वासवे ॥ ४९ ॥ स्तोकादेरसत्ववचनात् करणे का वा स्यात् । स्तोकान्मुक्तः । स्तोकेन मुक्तः । अल्पान्मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृच्छ्रेपण मुक्तः । कतिपयान्मुक्तः । कतिपयेन मुक्तः । असवे इति किं ? अल्पेन सीधुना मत्तः । करणे इति किं ! अल्पं जल्पति ।
+ तृप्तार्थैस्ता ॥ ५० ॥ तृप्तार्थैधुभिर्योगे करणे ता भवति । ओदनस्य तृप्यति । ओदनस्य तृप्तः । सक्तूनां पूर्यते । सक्तूनां पूरणः ।
* झोऽस्वार्थे ॥ ५१ ॥ जानातेरस्वार्थे अनवबोधने वर्तमानस्य करणे ता भवति । पयैसो जानीते । दभो जानीते । अस्वार्थे इति किं ? ध्वनिना दुहितरं जानाति ।
*का चारादयैः ॥ ५२ ॥ आरादर्थेर्दूरार्थैरंतिकार्थैश्चासत्त्ववाचिभिर्युक्ते का स्यात् ता च । दूरं ग्रामात् । दूर ग्रामस्य । विप्रकृष्टं पर्वतात् । विप्रकृष्टं पर्वतस्य । अंतिकं वनात् । अतिकं वनस्य । अभ्यासं देशात् । अभ्यासं देशस्य ।
*तेभ्यः केभाः ॥ ५३ ॥ तेभ्यः आरादर्थेभ्यः केन्भाः भवति । दूराद् ग्रामस्य । दूरं ग्रामस्य । दूरेण ग्रामस्य याति । अंतिकात् प्रामस्य । अंतिकं ग्रामस्य । अंतिकेन प्रामात् ।
॥
* ईबाधारे च ॥ ५४ ॥ ईव विभक्ती भवति आधारे कारके तेभ्यश्व ।
अपात्रे रमते लोको गिरौ वर्षति वासवः । अन्यस्त्रीषु मनो याति कुलस्त्रीषु न गच्छति ॥
३ पयसा करणभूतेन पश्यति प्रवर्तते वा । सर्पिषि रचः प्रतियो] वा तद् रूपेण सर्व बानाति ।