SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । प्रतिष्ठापयितुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यमि" त्यादि। तथाचोक्तम् । चित्तोत्पादः परार्थाय सम्यक्संबोधिकामता। समासव्यासतः मा च यथासूत्रं स चोच्यते ॥ १६ ॥ इति । तवायं तस्य प्रभेदः । तत्र प्रथमश्चित्तोत्पादश्छन्दसहगतो बोधिसत्त्वानां पृथिवीसमः सर्वाकारसर्वधर्माभिसंबोधस्य मंभारप्रसवप्रतिष्ठाभूतत्वात् । द्वितीय आशयसहगतः कल्याणसुवर्णोपमः षट्पारमितामहौतस्य हितसुखाशयस्यायतितदात्ययोर्विकारभजनादासम्यक्संबोधिशय आशय इति कृत्वा । तृतीयोऽध्याशयसहगतः शुक्लपक्षनवचन्द्रोपमः। सर्वशुक्लपक्षधर्मोत्तरोत्तरविधिगमनेनाधिक आश्रयोऽध्याशय इति कृत्वा । एते च त्रयो मृदमध्याधिमावतयाऽऽदिकर्मिकमंभारभूमिसङ्गहौताः। चतुर्थः प्रयोगसहगतो ज्वलनोपमस्त्रिसर्वज्ञताप्रयोगस्येन्धनान्तरविशेषेणेवाग्रुत्तरोत्तरविशेषगमनात्प्रकृष्टो योगः प्रयोग इति कृत्वा। अयञ्च प्रथमभूमिप्रवेशप्रयोगमार्गसङ्ग्रहीतोऽधिमुक्तिचर्याभूमिप्रतिबद्धः । पञ्चमो दानपारमितासहगतो महानिधानोपमः। सर्वथाऽमिषसम्भोगेनाप्रमेयसत्त्वमंतर्पणेऽप्यपर्यादानात् । षष्ठः शौलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानामाश्रयभावेन ततः प्रसवनात्। मप्तमः क्षान्तिपारमितासहगतो महार्णवोपमः सर्वानिष्टोपनिपातैरशोभ्यत्वात् । अष्टमो वौर्यपारमितासहगतो वजोपमः मंप्रत्ययदाना
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy