SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिवर्तः। भासमुत्पद्यमानं चित्तोत्पादः। सम्यक्संबोधिकामता च तत्प्रार्थना कुशला धर्मछन्दश्चैतसिक इति कथं स चित्तोत्पादो भवेत् । सत्यमेतत्। किन्तु दुःखार्णवनिमग्न जगदत्राणमभिसमौक्ष्य तवरणाभिप्रायः कुशलधर्मछन्दलक्षणायां प्रार्थनायां सत्यां मंबुद्धत्वाय चित्तमुत्यादयतौति कारणेनाव कार्य निर्दिष्टमेवं छन्दप्रार्थनस्य बोधिसत्त्वस्य सर्वे कुशलधर्मा वृद्धिं यान्तौति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः। प्रणिधानं वा प्रार्थना सम्यकसंबोधिकामता। तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते। प्रार्थना प्रधाना हि चित्तोत्पादावस्थेति कृत्वा। एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यते बोधिसत्त्वानामित्यपपन्नं भवति । अथ केयं सम्यक्संबोधिः कश्च परार्थों यत्कामतात्मको यदर्थश्रित्तोत्याद इति चेत्। उच्यते यथार्यपञ्चविंशतिसाहसिकासूत्रान्ते सम्यक्संबोधेः समासनिर्देशो यदाह । “सर्वाकारं शरिपुत्र सर्वधर्मानभिसंबोडकामेन बोधिसत्त्वंन प्रज्ञापारमितायां योगः करणीय" इति । तत्रायं तस्या व्यासनिर्देशो यदाह। "इह शारिपुत्र बोधिसत्त्वेनास्थानयोगेन प्रज्ञापारमितायां स्थित्वा दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुपलब्धिमुपादाये" त्यादि। तवायं परार्थस्य समासनिर्देशो यदाह। “दशसु दिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास्तान सर्वाननुपधिशेषे निर्वाणधातौ परिनिर्वापयितुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यमिति"। तवायं तस्य व्यासनिर्देशो यदाह। “मत्सरिणः सत्त्वान्दाने दुःशौलान् शौले व्यापादबहुलान् क्षान्तौ
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy