SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ततः यौवनोल्लासः तृतीयः -श्रीक्रमः ३ ऐं ह्रीं श्रीं कए ई लह्रीं नमः आत्मतत्त्वव्यापिनी ललिता तृप्यतु ॥ ह स क ह ल ह्रीं नमः विद्यातत्त्वव्यापिनी ललिता तृप्यतु ॥ सकल ह्रीं नमः शिवतत्त्वव्यापिनी ललिता तृप्यतु ॥ ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं नमः सर्वतत्त्वव्यापिनी ललिता तृप्यतु ॥ ३ ७१ इति निमीलितनयनः क्षणमवस्थाय, श्रीदेवीं भुक्तवतीं विभाव्य, पूर्ववत् उपचारमन्त्रैः पानीयोत्तरापोशनकरप्रक्षाळनगण्डूषपाद्यादि कल्पयित्वा भोजनपात्रं नैर्ऋत्यां निरस्य, अस्त्रेण स्थलं संशोध्य, ततः पुनः प्राग्वदाचमनीयकर्पूरवीटिकादक्षिणाकर्पूरनीराजनानि दत्वा, सुवर्णादिभाजनलिखितं कुङ्कुमपङ्करेखाऽऽत्मकं अष्टदलकमलकर्णिकास्थापि - तमणिमयचषकपूरितं प्रथमं प्रज्वाल्य, पुष्पाक्षतैरभ्यर्च्य, उपचारमन्त्रपूर्वकं - अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभम् । त्रिधा दीपं परिभ्राम्य कुलदीपं निवेदये ॥ इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् ॥ मन्त्रपुष्पम् अथ अलौ पुष्पाण्यादाय मन्त्रपुष्पम् । यथा--- शिवे शिवसुशीतळामृततरङ्गगन्धोल्लसन्नवावरणदेवते नवनवामृतस्यन्दिनि । गुरुक्रमपुरस्कृते गुणशरीरनित्योज्ज्वले षडङ्गपरिवारिते कलित एष पुष्पाञ्जलिः ॥ इत्युक्त्वा पुष्पाञ्जलिं समर्पयेत् । इत्येते कतिचिच्चतुष्षष्ट्युपचारातिरिक्ता उपचारास्तु पूर्ववत् धूपदीपेतिसूत्रगतेनादिपदेन गृह्यन्ते ॥ कामकळाध्यानम् अथ बिन्दुना मुखं बिन्दुद्वयेन स्तनौ सपरार्धेन योनिरिति कामकळाऽऽत्मिकां ध्यात्वा, सौः इति देवीशक्तिबीजं श्रीदेव्या हृदयत्वेन भावयेत् ।।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy