SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः कर्षप्रमितं आपूर्य कर्पूरगर्भिता वर्तिका हृल्लेखया प्रज्वाल्य ३ श्रीं ह्रीं म्लू स्लू म्लूं प्लूं न्लं ह्रीं श्रीं इति नवाक्षर्या रत्नेश्वरीविद्यया अभिमन्व्य चक्रमुद्रां प्रदर्य मूलेनाभ्यर्च्य जगद्धनिमन्त्रमातः स्वाहा इति मन्त्रपूर्वकं गन्धाक्षतादिना घण्टां सम्पूज्य तां वादयन् जानुचुम्बितभूतलस्तत्पात्रं आमस्तकमुद्धृत्य, ऐं ह्रीं श्रीं ललितायै आरार्तिकं कल्पयामि नम इति कल्पयित्वा, समस्तचक्रचक्रेशीयुते देवि नवाल्मिके । आरार्तिकमिदं तुभ्यं गृहाण मम सिद्धये ॥ इति नववारं श्रीदेव्या आचूडं आचरणानं परिभ्राम्य दक्षभागे स्थापयेत् । ततः ऐं ह्रीं श्रीं लळितायै छत्रं कल्पयामि नमः, चामरयुगळं, तालवृन्तं, गन्धं, पुष्पं, कल्पयामि नमः ॥ विविधानि पुष्पाणि कल्पयेत् । एतत्प्रकारश्च सप्तमे अनवस्थाख्योल्लासे द्रष्टव्यः ।। अथ धूपपात्रभरितेषु अङ्गारेषु दशाङ्गादि निक्षिप्य-- ऐं ह्रीं श्रीं ललितायै धूपं कल्पयामि नमः ॥ इति श्रीदेवीचरणान्तिके समर्प्य तत्पात्रं श्रीदेव्या वामभागे निदध्यात् । दशाङ्गानि तु श्वेतकृष्णागरू लाक्षा गुग्गुलुश्चन्दनं घृतम् । मधुबिल्वफलं राळः कर्पूरश्च दशाङ्गकम् ॥ इति वचनोक्तानि । ततो दीपभाजने अर्पितं गोघृततैलाद्यक्तं कर्पूरगर्भितं त्यादिविषमसङ्ख्याकं वर्तिजातं प्रज्वाल्य, ऐं ह्रीं श्रीं ललितायै दीपं कल्पयामि नमः ॥ इति देव्या दृक्समसीमनि प्रदर्श्य तत्पात्रं दक्षिणभागे निवेश्य, . : देव्यग्रतः स्वदक्षिणे अधिचतुरश्रमण्डलं आधारोपरि निहितकनकरौप्यादिभाजनभरितं फलविशेषखण्डसितालड्डुकादिनैवेद्यं मूलेन प्रोक्ष्य, वं इति धेनुमुद्रया अमृतीकृत्य मूलेन त्रिवारमभिमन्व्य,
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy