SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः- श्रीक्रमः युगळं, नासाभरणं, अधरयावकं, प्रथमभूषणं (माङ्गल्यसूत्र), कनकचिन्ताकं (एतच्च आन्ध्रपुरन्ध्रीजनेन ध्रियमाणः कर्ण[कण्ठ] भूषणविशेषः), पदकं, महापदकं, मुक्तावळिं, एकावळिं, छन्नवीरं (इदं चोभयतो वैकक्ष्यदामात्मकं भूषणम्), केयूरयुगळचतुष्टयं, वलयावळिं, ऊर्मिकावळिं, काञ्चीदाम, कटिसूत्रं, सौभाग्याभरणं, (अधश्च जघनालम्बी भूषणविशेषः), पादकटकं, रत्ननू पुरं. पादाङ्गुलीयकं, एककरे पाशं, अन्यकरे अङ्कुशं, इतरकरे पुण्डेक्षुचापं, अपरकरे पुप्पबाणान् तत्रोर्ध्वयोः वामदक्षयोः करयोः पाशाङ्कुशौ । अधःस्थितयोः चापबाणाः । (पाशो वैद्रुमः अङ्कुशो रूप्यमयः) एते च क्रमेण रागरोषमनस्तन्मात्रात्मकवासनारूपाः इति च ज्ञेयम्] श्रीमन्माणिक्यपादुके, स्वसमानवेषाभिः आवरणदेवताभिः सह महाचक्राधिरोहणं, कामेश्वराङ्कपर्योपवेशनं, (अत्र इतरासां निजनिजस्थानावस्थितिभावनामात्रम्), अमृतासवचषकं, आचमनीयं, कर्पूरवीटिकां कल्पयामि नमः ॥ तल्लक्षणं तु एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः । जातीफलदकैः पूगैः लाङ्गल्यूषणनागरैः । चूर्णैः खादिरसारैश्च युक्ता कर्पूरवीटिका ॥ आदिपदेन ताम्बूलीदळतक्कोलग्रहणम् । ऐं ह्रीं श्रीं लळितायै आनन्दोल्लासविलासहासं, मङ्गळारार्तिकं कल्पयामि नमः ॥ तत्प्रकारस्तु—कलधौतादिभाजने कुङ्कुमचन्दनादिलिखितस्याष्टषट्चतुर्दळाद्यन्यतमस्य कमलस्य चन्द्राकार चरुगोळकवत्यां चणकमुद्गजुषि वा कर्णिकायां दळेषु च पयःशर्करापिण्डीकृतयवगोधूमादिपिष्टोपादानकानि त्रिकोणशिरस्कडमर्वाकृतीनि चतुरङ्गुलोत्सेधानि घृतपाचितानि नवसप्तपञ्चान्यतमसङ्ख्यानि दीपपात्राणि निधाय तेषु गोघृतं प्रत्येक 1 चारु-अ, भ. * एकमुद्राजुषि-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy