SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः -- श्रीक्रमः अन्तर्यागः स च ज्ञानार्णवे दृष्टः । यथा -- मूलाधारादा ब्रह्मबिलं विलसन्तीं बिसतन्तु - तनीयसीं विद्युत्पुञ्जपिञ्जरां विवस्वदयुतभास्वत्प्रकाशां परश्शतसुधामयूखशीतलतेजोदण्डरूपां परचितिं भावयेदिति । अथ हृदि श्रीचक्रं विभाव्य तत्र तामेव स्वीकृतप्रागुक्तरूपां श्रीदेवीं ध्यात्वा वक्ष्यमाणैः गन्धादिताम्बूलान्तं षडुपचारमन्त्रैः उपचर्य तां पुनस्तेजोरूपेण परिणतां परमशिवज्योतिरभिन्नप्रकाशात्मिकां वियदादिविश्वकारणां सर्वावभासिकां स्वात्माभिन्नां परचितिं सुषुम्नापथेन उद्गमय्य विनिर्भिन्नविधिबिलविलसदमलदशशतदळकमलाद्वहन्नासापुटेन निर्गतां त्रिखण्डामुद्रामण्डित शिखण्डे कुसुमगर्भिते अञ्जलौ समानीय ऐं ह्रीं श्रीं ह्रीं श्रीं सौः श्रीललिताया अमृतचैतन्यमूर्ति कल्पयामि नमः इति मन्त्रमुच्चारयन् निजलीलाऽङ्गीकृतललितवपुषं विचिन्त्य — ऐं ह्रीं श्रीं ह्रौं ह्स्क्लरीं ह्सौः । महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इति मन्त्रेण बिन्दुपीठगतनिर्विशेषब्रह्मात्मकश्रीमत्कामेश्वराङ्के परदेवतामावाहयेत् ॥ अथ नित्याऽऽदिकमणिमाऽन्तं श्रीकामेश्वराङ्कोपवेशनं विना श्रीदेवीसमानाकृति - वेषभूषणायुधशक्तिचक्रं ओघत्रयगुरुमण्डलं च वक्ष्यमाणेषु आवरणेषु निजस्वामिन्यभिमुखोपविष्टमवमृश्य मूलेन आवाहनसंस्थापनसन्निधापनसन्निरोधनसम्मुखीकरणावगुण्ठनवन्दनधेनुयोनिमुद्राः प्रदर्शयंस्तदखिलं भावयेत् ॥ अत्र मेरुमन्त्रात्मकं चक्रं श्रीत्विषस्तत्र देवताः । कामेश्वरः प्रकाशात्मा श्रीविमर्शस्तदङ्कः ॥ ' एह्येहि देवदेवेशि त्रिपुरे देवपूजिते । परामृतप्रिये शीघ्रं सान्निध्यं कुरु सिद्धिदे ॥ देवेशि भक्तिसुलभे सर्वावरणसंवृते । यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥ ५१ इति अधिक: 'अ' कोशे.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy