SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः . अथ अस्त्राय फडिति अस्त्रमन्त्रेण संरक्ष्य, ३ कवचाय हुमिति अवकुण्ठनमुद्रया अवकुण्ठ्य, धेनुयोनिमुद्रे प्रदर्श्य, मूलेन सप्तवारमभिमन्व्यं, तत्सलिलपृषतैः आत्मानं पूजोपकरणानि चावोक्ष्य, शङ्खगतजलात् किञ्चिद्वर्धन्यां क्षिपेत् ॥ इति सामान्यायविधिः ॥ विशेषार्थ्यविधिः अथ सामान्यायॊदकेन तद्दक्षिणतो बिन्दुत्रिकोणषट्कोणवृत्तचतुरश्रात्मकं मण्डलं मत्स्यमुद्रया परिकल्प्य, बिन्दौ सानुस्वारं तुरीयस्वरमालिख्य (विद्यया मध्यमभ्यर्च्य) चतुरश्रे प्राग्वत् षडॉ विन्यस्य कूटत्रयेण त्रिकोणकोणानभ्यर्च्य पुरोभागादिप्रादक्षिण्येन कूटत्रयद्विरावृत्त्या षट्कोणस्य कोणांश्च क्रमेण कुसुमादिभिः अभ्यर्चयेत् । अथ तत्र मण्डले ३ ऐं अग्निमण्डलाय "दशकलाऽऽत्मने अर्घ्यपात्राधाराय नम इति उक्तलक्षणमाधारमादाय, प्राग्वत् विचिन्त्य तस्मिन्नुक्तदिशामु दशकृशानुकलाः संमृश्य, तदुपरि सुवर्णरूप्यशङ्खमुक्ताशुक्तिमहाशङ्खनारिकेळाश्वत्थपलाशादिनिर्मितमुक्तविस्तारोत्सेधं त्रिकोणचतुरश्रवर्तुलाद्यन्यतमाकारं पात्रं ३ क्लीं सूर्यमण्डलाय 'द्वादशकलाऽऽत्मने अर्घ्यपात्राय नम इति मन्त्रेण निधाय, पूर्ववत् विभाविते तत्र ३ ह्रीं ऐं महालक्ष्मि ईश्वरि परमस्वामिनि ऊर्ध्वशून्यप्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छ आगच्छ . विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहा इति मन्त्रेण पुप्पाञ्जलिं विकीर्य, दर्शितक्रमेण द्वादशदिनेशकलाः सम्भाव्य, तत्र पात्रे सौः सोममण्डलाय 'षोडशकलाऽऽत्मने अर्ध्यामृताय नम इति मन्त्रेण कलशगतं कस्तूरिकाऽऽद्यधिवासितं क्षीरमभिपूर्व प्राग्वत् अवमृष्टे तत्र चन्दनागरुकर्पूरकचोरकुङ्कुमरोचनाजटामांसिशिलारसाख्याष्टगन्धपकलोलितं यथासम्भवं गन्धकर्दमक्लिन्नं वा सुरभिळं कुसुमं निक्षिप्य मूलशकलान्याकनागरादिखण्डानि च सम्मिश्य प्रागुक्तभङ्गया षोडशसोमकलाः सम्पूज्य, तत्र विशेषाामृते स्वाग्रादिप्रादक्षिण्येन अकथादिषोडशवर्णात्मकरेखात्रयं त्रिकोणं विलिख्य, तदन्तः स्वाग्रादिकोणेषु प्रादक्षिण्येन हळक्षान् विलिख्य, बहिश्च मूलखण्डत्रयं, बिन्दौ सबिन्दु तुरीयस्वरं, तद्वामदक्षयोः क्रमेण हं 'कुण्डलितो भागः (श्री) कोश एव वर्तते. 'धर्मप्रद' इत्यधिकः-अ. ३ 'अर्थप्रद' इत्यधिकः-अ. 4 'कामप्रद' इत्यधिकः-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy