SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः इति पुष्पैः षडङ्गं विन्यसेत् । अत्र पूर्वादिचतुर्दिगधिकरणकं सकृदेकमेवास्त्रं ज्ञेयम् । एवमुत्तरत्रापि । अथ तत्र मण्डले ऐं ह्रीं श्रीं अस्त्राय फडिति क्षाळितं चतुरङ्गुलविस्तारोत्सेधं स्वर्णरूप्यताम्रादिमयं त्रिपदं चतुप्पदं षट्पदमष्टपदं वा आधारं ३ अं अमिमण्डलाय 'दशकलाऽऽत्मने अर्घ्यपात्राधाराय नम इति निधाय अमिमण्डलत्वेन विभावितस्य तस्य पश्चिमादिप्रादक्षिण्यक्रमेण ह्रीं श्रीं धूम्रार्चिषे नमः, ऊष्मायै, ज्वलिन्यै, ज्वालिन्यै, विस्फुलिङ्गिन्यै, सुश्रियै, सुरूपायै, कपिलाय, हव्यवाहायै, कव्यवाहायै नमः ।। इति दशवह्निकलाः सम्पूज्य, आधारोपरि अस्त्रेण क्षाळितं शङ्ख ३ उं सूर्यमण्डलाय द्वादशंकलाऽऽत्मने अर्घ्यपात्राय नम इति प्रतिष्ठाप्य सूर्यमण्डलात्मकतया ध्यातस्य तस्य पूर्वोक्तक्रमेण ऐं ह्रीं श्रीं के भं तपिन्यै नमः, खं बं तापिन्यै, गं फं धूम्रायै, घं पं मरीच्यै, डं नं ज्वालिन्यै, चं धं रुच्यै, छं दं सुषुम्नायै, जं थं भोगदायै, झं तं विश्वायै, अं णं बोधिन्यै, टं ढं धारिण्यै, ठंडं क्षमायै नमः ॥ इति द्वादशसूर्यकलाः समभ्यर्च्य, तस्मिन् शंखे ३ मं सोममण्डलाय षोडशकलाऽऽत्मने अामृताय नम इति कर्पूरादिवासितं वर्धनीसलिलमापूर्य क्षीरबिन्दं दत्वा, सोममण्डलत्वेन सञ्चिन्तिते तत्र अय॑सलिले पूर्वोक्तक्रमेण ऐं ह्रीं श्रीं अमृतायै नमः, मानदायै. पूषायै, तुष्टयै, पुष्टयै, रत्यै, धृत्यै, शशिन्यै, चन्द्रिकायै, कान्त्यै, ज्योत्स्नायै, श्रियै, प्रीत्यै, अङ्गदायै, पूर्णायै, पूर्णामृतायै नमः॥ इति षोडशेन्दुकलाः यजेत् । ततः पूर्ववत् विदिक्षु मध्ये दिक्षु च, ३ क ए ई ल ह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि इत्यादिरीत्या त्रितारीयुतकूटत्रयं द्विरावर्त्य पुप्पैः षडङ्गानि समर्चयेत् । श्रीषोडशाक्षों तु यथास्थितेन कूटषट्केनैव । एवमुत्तरत्रापि ॥ 1'धर्मप्रद' इत्यधिकः-अ. 'अर्थप्रद' इत्यधिकः-अ. 3 'कामप्रद' इत्यधिकः-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy