SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तरुणोलासो द्वितीयः - गणपतिक्रमः अथ पुनर्मूलेन देवं उक्तया रीत्या पञ्चधा उपचर्य आत्मन्युद्वासयेत् ॥ इति चतुरावृत्तितर्पणविधिः ॥ पूजाविधि: यागमन्दिरागमनादि विघ्नोत्सारणान्तम ततो यागगृहमागत्य स्थण्डिलं गोमयेनोपलिप्य यागमन्दिरं च रङ्गवल्लीपुष्पमालिकावितानादिभिः : अलङ्कृत्य च द्वारस्य दक्षवामभागयोः ऊर्ध्वभागे च क्रमेण श्रीं ह्रीं क्लीं भद्रकाळ्यै नमः || दक्षशाखायाम् || ३ भैरवाय नमः || वामशाखायाम् ॥ ३ लम्बोदराय नमः || ऊर्ध्वशाखायाम् ॥ २१ श्रीं ह्रीं क्लीं अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारः ते नश्यन्तु शिवाज्ञया ॥ ----- इति तिस्रो द्वारि देवताः सम्पूज्य अन्तः प्रविष्टः सपर्यासामग्रीं दक्षभागे निधाय दीपानभितः प्रज्वाल्य दीपौ वा गन्धादिभिः कृतात्मालङ्करण: ताम्बूलेन जातीपत्रफललवङ्गैलाकर्पूराख्यपञ्चतिक्तेन वा सुरभिळवदनः स्वास्तीर्णे ऊर्णामृदुनि शुचिनि बालातृतीयबीजेन द्वादशवारमभिमन्त्रिते मूलमन्त्रोक्षिते आसने ३ आधारशक्तिकमलासनाय नमः इति प्राङ्मुख उदङ्मुखो वा पद्मासनाद्यन्यतमेनासनेनोपविश्य ३ रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति पुष्पाञ्जलिना भूमौ दीपनाथमिष्टा ३. समस्तगुप्तप्रकटसिद्धयोगिनीचक्र श्रीपादुकाभ्यो नम इति मूर्धनि बद्धाञ्जलिः स्ववामदक्षपार्श्वयोः क्रमेण श्रीगुरुपादुकया गुरुं मूलेन च देवं प्रणम्य स्वस्य तदैक्यं भावयन्— इति मन्त्रं सकृदुच्चार्य युगपद्वामपाणिभूतल त्रिराघातकरास्फोटत्रितयक्रूरदृष्टयवलोकनपूर्वकताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy