SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ तरुणोल्लासो द्वितीयः - गणपतिक्रमः उपोद्घातः त्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । तनौत्युमाऽऽनन्दनाथस्तरुणोल्लासमादृतः ॥ यत्रोच्यते जगन्मातुः यावज्जीवार्चनाविधौ । प्रत्यूहापोह निपुणा पद्धतिर्गाणनायकी ॥ स्वतन्त्रोपास्तिविषया पृथग्दीह सम्मता । न श्रीक्रमाङ्गभावे साऽप्यारम्भोल्लास ईरिता || इह श्रीं ह्रीं कामबीजयोगोऽङ्गमनुषु स्मृतः । अमूत्रितोऽपि श्रीविद्याऽर्णवाद कथितो हि सः ॥ काल्यकृत्याह्निकयोर्विशेषः तत्र तावत् काल्यकृत्याह्निकयोः वक्ष्यमाणश्रीक्रमतो विशेषो यथाश्रीगुरुपादुकायां आदौ त्रितार्युत्तरं बाला वाक् ग्लौमिति पञ्चबीजयोजनम् । हृदयकमलकर्णिकायां उद्यदरुणकिरणकोटिपाटलस्य देवस्य करटिवदनस्य ध्यानेन परिप्लुष्टनिःशेषदोषत्वं आत्मनः तत्प्रभाऽरुणतनुत्वभावनं च । रश्मिस्त्रगननुस्मरणम् । तत्र तत्र यथोचितं सम्बुद्ध्यादीनामूहः । सवितृमण्डले वक्ष्यमाणं देवस्य ध्यानम् । तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ इति मन्त्रेण त्रिः अर्घ्यदानम् । ऋष्यादिन्यासत्रयमिह वक्ष्यमाणं चेति ॥ 1 चतुरावृत्तितर्पणसंकल्पादि ततः आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम श्रीमहागणपतिप्रसादसिद्ध्यै चतुरावृत्तितर्पणं करिष्य इति सङ्कल्प्य नद्यादौ हस्तमात्रं चतुरश्रमण्डलं परिगृह्य
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy