SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ तदन्तोल्लासः पञ्चमः-दण्डिनीक्रमः ___ उपोद्धात: नत्वा श्रीभासुरानन्दनाथपादाम्बुजद्वयम् । तनोत्युमानन्दनाथः तदन्तोल्लासमद्भुतम् ॥ अत्र संविन्महाराज्ञीदण्डनाथाक्रमः स्मृतः । दुष्टनिग्रहशिष्टानुग्रहौ यस्या वशंवदौ ॥ प्रसाद्य सचिवेशानी पञ्चमीक्रममाचरेत् । वाग्लौमुपक्रमा यत्र सर्वाङ्गमनवो मताः ॥ दीक्षाविधिरिहापेक्ष्यः आरम्भोल्लास ईक्ष्यताम् । सन्ध्या तु तान्त्रिकी न स्यात् सूत्रकारैरसूत्रणात् ॥ निशीथे किं तु कुर्वीत बालया प्रातराह्निकम् । तस्याः खल्विष्टमन्त्रात् प्रागुपदेष्टव्यता यतः ॥ काल्यकृत्यं आह्निकं च साधकस्तावन्निशीथे प्रबुद्धः श्रीक्रमोक्तेन क्रमेण श्रीगुरुध्यानादिप्राणायामान्तं विधिं विदध्यात् । तत्र च श्रीगुरुपादुकायां 'आदौ त्रितारीस्थाने वाक् ग्लौं इति वीजद्वयं योज्यम् । ततो हृदयपरमाकाशे स्फुरतः अखण्डानन्ददायिनः परसंवित्परिणतः अनाहतस्य नादस्य अनुसन्धानेन भस्मितनिखिलकश्मलो मूलं मनसा दशवारमावर्त्य उत्थाय निर्वर्तितावश्यको गृह एव वारुण-मान्त्र-भास्मननानेप्वन्यतमं कुर्यात् । वारुणे मूलेन त्रिरुदकाञ्जलिदानं शिरसि, त्रिराचमनं, त्रिः प्रोक्षणं च विदध्यात् । इह ललिताङ्गत्वेन वाराह्या निशीथोपास्त्तावाहिकं दिवा सपर्या चानुष्ठेयैव । इत्यधिकःश्री, अ१.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy