SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः अभोज्यानि ____ गुडकृत्रिमलवणपर्युषितनिस्नेहकीटादिदूषितकाञ्जिकग्रञ्जनबिल्वकरञ्जलशुनमृणाळकोद्रवतैलपकमाषमसूरचणकगोधूमदेवधान्यादीनि ॥ भोजनपर्यायः स्वेष्टदेवतायै निवेदितं सव्यञ्जनमन्नं मूलेन प्रोक्ष्य सप्तवारं प्रतिद्रव्यमभिमन्त्र्य अभीयात् । उदकं द्वात्रिंशद्वारं मूलाभिमन्त्रितं पिबेत् ॥ ___ जपादिसमय आवश्यकोपाधौ शुचौ देशे तं निवर्त्य स्नात्वा शेषं समापयेत् । अशक्तौ तु मन्त्रभस्मान्यतरस्नानवस्त्रपरिवर्तने केवलं कुर्यादिति ॥ ____इत्थं कृतपुरश्चरणः सिद्धमनुः देवताप्रसादसम्पन्नः स्वातन्त्र्येणोपास्तौ श्रीक्रमोक्तेन क्रमेण नैमित्तिकार्चनपरः सति कामे काम्यमनुतिष्ठन् पूर्णमनोरथः सुखी विहरेदिति शिवम् ॥ इति श्रीभासुरानन्दनाथचरणारविन्दमिळिन्दायमानमानसेनोमानन्दनाथेन निर्मिते अभिनवे कल्पसूत्रानुसारिणि नित्योत्सवनिबन्धे श्यामाक्रमनिरूपणं नाम प्रौढोल्लासश्चतुर्थः समाप्तः॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy