SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लास: चतुर्थ:-श्यामाक्रमः निगदेन तु यज्जप्तं लक्षमात्रं वरानने । उपांशुस्मरणेनैव तुल्यं भवति शैलजे ॥ उपांशुलक्षमात्रं तु यज्जप्तं कमलेक्षणे । मानसस्मरणेनैव तुल्यमेकेन सुन्दरि ।। इति ॥ स्वच्छन्दतन्त्रसारे तु जपस्तु षविधः प्रोक्तस्तत्प्रकारोऽयमुच्यते । वाचिकं मानसं चैव यौगिकं योगवाचिकम् ॥ योगमानसिकं चैव वाङ्मानसिकयौगिकम् । वाचा केवलयोच्चार्य मन्त्रं देवीं विभाव्य च ॥ जपेद्यत् परमेशानि वाचिकं तत्प्रकीर्तितम् । देव्या रूपं च सञ्चिन्त्य सावधानेन चेतसा ॥ मन्त्रस्याप्यनुसन्धानं मानसं परिकीर्तितम् । त्रिस्थानेन त्रिबीजानि क्रमात् सञ्चिन्त्य मार्गतः ॥ आरोहो यौगिकं प्रोक्तमुच्यते योगवाचिकम् । लक्ष्ये मनः समायोज्य वाचा मन्त्र जपेच्छिवे ॥ योगवाचिकमेतत् स्याद्योगमानसिकं शृणु । लक्ष्येण मानसं पूर्व संयोज्य मनसा जपम् ॥ योगमानसिकं विद्यादथान्यदपि चोच्यते । मनसाऽपि जपेन्मन्त्रं बीजानारोहणक्रमात् ॥ वाङ्मानसिकयोगाख्यं जपमेतदनुत्तमम् । वाचिकेन जपेनैव केवला वाक् प्रवर्तते ।। मानसाच्छूियमाप्नोति यौगिकाद्योगसिद्धयः । वाङ्मानसजपेनैव वाज्ज्ञानेश्वर्यसिद्धयः ।। भवन्ति परमेशानि योगमानसिकेन तु । अणिमादीनि चान्यानि सर्वाणि लभते ध्रुवम् ॥ 1 देवि-बर, ब३, अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy