SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रौढोलास: चतुर्थ:: -- श्यामाक्रमः १५३ चतुरश्रस्यान्तराग्नेयादिकोणेषु क्रमेण ऐं क्लीं सौः गं गणपतिश्रीपादुकां पूजयामि तर्पयामि नमः, दुं दुर्गा, वं बटुक. क्षं क्षेत्रपाल श्रीपादुकां पूजयामि तर्पयामि नमः || देव्यादिद्वारेषु प्रागाद्यास्वेकादशसु दिक्षु - ऐं क्लीं सौः सां सरस्वत्यै नमः इत्यादि ऐं वास्तुपतये ब्रह्मणे नमः इत्यन्तैः मन्त्रैः प्रागुक्तैः वास्तुपतिपर्यन्तदेवताः समभ्यर्च्य, पूर्व रेखायां च - ऐं क्लीं सौः हंसमूर्तिश्रीपादुकां पूजयामि तर्पयामि नमः, परप्रकाश, पूर्ण, नित्य, करुणश्रीपादुकां पूजयामि तर्पयामि नमः इति सम्प्रदायगुरूंश्च पूजयेत् ॥ इति सप्तमावरणम् ॥ सर्वा अप्यावरणदेवताः देव्या अभिमुखासीनाः स्वयं तत्तदभिमुखः पूजयामीति भावयेत् ॥ गुरुपादुकापूजा अथ स्वशिरसि ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं ह ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह्सौं स्हौः श्रीशिवादिगुरु श्रीपादुकाः पूजयामीति सामान्यपादुकया शिवादिगुरून्, ऐं क्लीं सौः हस्ख्फें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह्सौं स्हौः अमुकाम्बासहितामुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामीति च स्वगुरुमभ्यर्च्य ॥ देव्याः पुनः पूजा पुनर्देवीं त्रिः सन्तर्प्य प्राग्वत् षोडशधा चोपचरेत् ॥ बलिदानम् ततः श्रीक्रमोक्तेन क्रमेण होमं कृत्वा कारयित्वा वा (अकृत्वा वा इति पाठान्तरम्) शुद्धजलेन त्रिकोणवृत्तचतुरश्रमण्डलत्रयं विधाय ऐं व्यापकमण्डलाय नम इति पुष्पैः समभ्यर्च्य अर्धान्नसलिलपूर्ण सक्षीरोपादिममध्यमं सगन्धकुसुमं साधारं पात्रं निधाय ऐं क्लीं सौः श्रीमातङ्गीश्वरि इमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा, ऐं क्लीं 66
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy