SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लास : चतुर्थ:- श्यामाक्रमः यत्रोद्धारः अथ चन्दनपङ्कप्रकृतिके मण्डल क्षीरमिश्रितेन सिन्दूरादिना बिन्दुत्रिकोणपञ्चकोणाष्टदलषोडशदलाष्टपत्रचतुष्पत्रचतुरश्रात्मकं चक्रं विलिख्य विलेख्य वा सुवर्णरजतताम्रस्फटिकमरकतरत्नाद्युत्कीर्ण वा तत्समास्तीर्णपट्टवसने श्रीखण्डरक्तचन्दनादिनिर्मिते पीठे निवेश्य यन्त्रप्राणप्रतिष्ठां कुर्यात् । यथा ऐं क्लीं सौः श्यामायन्त्रस्य प्राणा इह प्राणाः, ३ श्यामायन्त्रस्य जीव इह स्थितः, ३ श्यामायन्त्रस्य सर्वेन्द्रियाणि, श्यामायन्त्रस्य वाङ्मनः प्राणाः इहायान्तु स्वाहा ॥ ૧૪૧ इति मन्त्रेण लिखितयन्त्रप्राणप्रतिष्ठां विदध्यात् । सुवर्णादिकृतस्य यन्त्रस्य तु प्राणप्रतिष्ठा श्रीक्रमोक्ता अत्राप्यनुसन्धेया । अत्र देवतानामाद्यूहस्त्वावश्यक एव । एवं देवताऽन्तरक्रमेष्वपि । ततो मूलेन चक्रे पुष्पाञ्जलिं विकीर्य ॥ 1 अर्घ्यशोधनम् श्रीक्रमोक्तक्रमेण सामान्यविशेषा आसादयेत् । अत्र चोभयोरप्यर्घ्ययोः प्रवेशरीत्या अन्तरन्तश्चतुरश्रादिबिन्द्वन्तमण्डलकरणम् ॥ ऐं क्लीं सौः अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारस्थापनम् ॥ उं विद्यातत्त्वाय पद्मासनाय वौषट् इति पात्रनिधानम् ॥ ३ मं शिवतत्त्वाय सोममण्डलाय नमः इति शुद्धजलापूरणमेकत्र ॥ ३ ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् । आपूरितं महापात्रे पीयूषरसमवह || इति क्षीरपूरणमन्यत्र । उक्तं षडङ्ग, मूलेन दशधा अभिमन्त्रणम्, चतुर्णवतिमन्त्राभिमन्त्रणाभावश्च विशेषः । ततो विशेषार्ध्यविन्दुभिः सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy