SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लासः चतुर्थः-श्यामाक्रमः १४५ ऐं क्लीं सौः भद्रकाल्यै नमः, ३ भैरवाय. ३ लम्बोदराय नमः ॥ इति तिस्रो द्वारदेवताः सम्पूज्य अन्तः प्रविष्टः ३ रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमः इति पुप्पाञ्जलिना भूमौ दीपनाथमिष्ट्वा सपर्यासामग्री स्वस्य दक्षमागे निधाय दीपानभितः प्रज्वाल्य गन्धमाल्यादिभिः अलङ्कृतात्मा ताम्बूलेन जातीपत्रफललवङ्गैलाकर्पूराख्यपञ्चतिक्तेन वा सुरभिलवदनः सुप्रसन्नमनाः स्वास्तीर्णे ऊर्णामृदुनि शुचिनि बालातृतीयबीजेन द्वादशवारमभिमन्त्रिते मूलमन्त्रोक्षिते आसने ३ आधारशक्तिकमलासनाय नमः इति प्राङ्मुख उदङ्मुखो वा पद्मासनाद्यन्यतमेन आसनेनोपविश्य ३ समस्तगुप्तप्रकटसिद्धयोगिनीचक्रदेवताश्रीपादुकाभ्यो नमः इति मूर्ध्नि बद्धाञ्जलिः म्ववामदक्षपार्श्वयोः क्रमेण गुरुपादुकया श्रीगुरुं महागणपतिमन्त्रेण च गणपतिं प्रणम्य ३ ऐं ह्रः अस्त्राय फट् इति मन्त्रेण मुहुरावृत्तेन अङ्गुष्ठादिकरतलान्तं कूर्परयोश्च विन्यस्य देहे च व्यापकं कृत्वा स्वस्य देवतैक्यं भावयन्में क्लीं सौः अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ इति मन्त्रं सकृदुच्चार्य युगपद्वामपाणिभूतलत्रिराघातकरास्फोटत्रयकरदृष्टयवलोकनपूर्वकं तालत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् । तालत्रयं नाम दक्षतर्जनीमध्यमाभ्यामधोमुखाभ्यां वामकरतले सशब्दमुपर्युपरि त्रिरमिघातः ॥ प्राणायामः अथ ३ नम इत्यङ्गुष्ठमन्त्रमुच्चार्य अंकुशेन शिखां बद्धा श्रीक्रमोक्तप्रकारेण भूतशुद्धिं आत्मप्राणप्रतिष्ठां च विधाय मूलेन विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा प्राणानायम्य ॥ षडंगादिन्यासपञ्चकम् नेजोरूपदेवीमयं भावयन्नात्मानं निजदेहे न्यासजालात्मकं वज्रकवचं आमुश्चेत् । यथा-- ___ही श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहरि हृदयाय नमः ॥ ७ सर्वमुखरञ्जिनि शिरमे म्वाहा ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy