SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः — श्रीक्रमः नित्यक्रमात् नैमित्तिके विशेष : तत्र परिगणितेषु पर्वसु प्रातः नित्यक्रमं निर्वर्त्य रात्रौ अमुकपर्वप्रयुक्तं नैमित्तिकमर्चनं करिष्य इति सङ्कल्प्य यथाविभवं समारम्भविशेषेण मपञ्चककरणक एव क्रमो निर्वर्तनीयः । न तु " मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः " इति सूत्रेण नित्यक्रम इव प्रतिनिधिनाऽपि वा । चैत्राद्यासु पौर्णमासीषु तु वक्ष्यमाणेन विधिना तन्त्रान्तरोक्तेन दमनकादिसमर्पणमपि । सति सम्भवे आश्वयुज्यां तत्प्रतिपदादिपर्वान्तप्रयोगोऽप्यनुष्ठेयः, “पञ्चपर्वसु विशेषार्चा " इति सूत्रस्य नानाविद्याऽङ्गशाल्यर्चाबोधकत्वात्, विविधाः शेषाः कालद्रव्य क्रियाऽऽदिरूपाण्यङ्गानि यस्यां तादृश्यर्चेति विग्रहात् ॥ १३७ निवेदने पक्षभेदाः तत्र द्रवद्रव्यनिवेदने त्रयः पक्षा भवन्ति । पृथक् पृथक् पात्रस्थं हिमोदकादिकं ऐं ह्रीं श्रीं अमुकदेवताया अमुकं कल्पयामि नम इति तत्तन्नामघटितेनोपचारमन्त्रेण प्रधानदेव्यादिभ्यो नवमचक्रेश्वर्यन्ताभ्यस्त्रिपञ्चाशदुत्तरशतसङ्ख्याकाभ्यो देवताभ्यः प्रत्येकं निवेदयेत् । इह प्रधानदेव्या सह नित्याः षोडश, महाकामेश्वर्यादयश्चतस्रः, त्रिपुरादयः चक्रेश्वर्यो नव, कामेश्वरायुधदेव्यः चतस्र इति विवेकः । यदि वा प्रधानदेवतानिवेदनोत्तरं ३ अङ्गदेवीभ्यो नित्याभ्यो अमुकौघायौघत्रयाय अणिमाऽऽदिभ्यो मातृभ्यो मुद्रादेवीभ्यो अणिमाऽऽदिभ्यो वा कामेश्वर्यादिनित्याकलाभ्यः अनङ्गकुसुमादिभ्यः सर्वसङ्क्षोभिण्यादिभ्यः सर्वसिद्धिप्रदाभ्यः सर्वज्ञादिभ्यो वशिन्यादिभ्यः आयुधदेवीभ्यो महाकामेश्वर्यादिभ्यः त्रिपुरादिचक्रेश्वरीभ्योऽमुकं कल्पयामीति तत्समष्ट्यै निवेदयेत् । अथवा प्रधानदेवतायै पृथङ् निवेद्य ऐं ह्रीं श्रीं हृदयदेव्यादिभ्यो नवचक्रेश्वर्यन्ताभ्योऽमुकं कल्पयामीति सर्वसमष्ट्यै निवेदयेदित्येकः ॥ अनेकपात्रासम्भवे अष्टादश चतुर्दश वा पात्राणि तत्तद्द्रव्यसम्भृतानि उपहृत्य पूर्वोक्तान्यतमेन प्रकारेण निवेदयेदिति द्वितीयः । अत्रौघत्रयसिद्धिमातृमुद्राणां पार्थक्यतदन्यत्वाभ्यां पात्राणामष्टादशत्वं चतुर्दशत्वं च ज्ञेयम् ॥ तत्राप्यसम्भवे प्रथमद्वितीययोः प्रकारयोः महति पात्रे सम्भृतं हिमोदकादिकमुपपात्रेण आदायादाय निवेद्य निवेद्य पात्रान्तरे निक्षिपेत् । अन्त्ये तु प्रकारे महापात्रस्थं सर्वाभ्यो देवताभ्यो युगपन्निवेदयेदिति तृतीयः ॥ 1 64
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy