SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रपरिशिष्टम् ३७९ चतुरश्रद्वयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टं विलिख्य, तत्र संप्रदायेन वाग्भवे बीजभेदान् विंशत्यधिकशतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य, विशिष्टेषु तृतीयबीजस्य प्रस्तारसंजनितचतुर्विंशतिभेदान् विलिखेत्॥ ___ अथ चतुरश्रद्वयान्तराळे षड्खायातनेन सप्तकोष्ठान् संविधाय, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य, शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् इति शिवम् ॥ ५॥ इति षोडशः खण्डः अथातः सर्वमङ्गविद्यायाः स्वरूपबाहुळ्योपदेशं तद्विनियोगप्रस्तावं च करोति ॥ १॥ तत्र वातायैः ग्रासमयान्तैः अकारायैः क्षकारान्तः मातृकाविसराक्षरैः प्रोक्तसंख्यैरित्यर्थः ॥ २॥ शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनां च पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयोजनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशतसंख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशः प्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसंख्याविद्यारूपाणि सतीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थाने स्वरान् षोडश योजयेत् ॥ ३॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy