SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०० परशुरामकल्पसूत्रम् जलवणहोमेन कृत्यामुत्पादयामासुः इत्यैतिह्यमस्ति । एवं तन्त्रेप्वप्युपलभ्यते । तस्मात् प्रथमपक्षो युक्तः ॥ २४ ॥ बलिदानम् अथोत्तराङ्गमाह---- बलिं प्रदाय ॥ २५॥ बलि दा नं तत्तत्पूजाक्रमोक्तविधिना ।। २५ ।। महाव्याहृतिहोमः महाव्याहृतिहोममाह---- ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा । ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । ॐ सुवरादित्याय च दिवे च महते च स्वाहा । ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । इति चतुर्भिमत्रैः महाव्याहृतिहोमं कृत्वा ॥ २६ ॥ ब्रह्मार्पणाहुतिः ब्रह्मार्पणाहुतिमाह---- इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुत्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भयामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा इति ब्रह्मार्पणाहुति कृत्वा ॥ २७ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy