SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् अत्यन्तगळितानां तु प्राणिनां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥ इति ॥ तत्रैव सूतगीतायाम् श्रुतिपथगळितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित् प्राह शंभुः । श्रुतिपथनिरतानां तत्र नैवास्ति किंचित् हितकरमिह सर्व पुष्कलं सत्यमुक्तम् ।। इति प्रमाणान्तरवचनात् । तस्मात् प्रमाणान्यपि तन्त्राणि वेदमार्गगळितस्यैव न वैदिकस्येति चेत्--- . न। यच्च श्रुतिपथगळितानामिति सूतगीतावचनं तत्रत्यं तन्त्रपदं तन्त्रविशेषपरम्। तच्च तन्त्रं शैवागम इति प्रसिद्धम् , दक्षिणदेशे च भाषया जङ्गम इति प्रसिद्धैरनुष्ठितम् । कथमिदमेवेति ज्ञापकमिति चेत् , अस्ति ज्ञापकं पूर्वोक्तवचनसमीप एव श्रुतिपथगळितानां सर्वतन्त्रेषु लिङ्ग ___कथितमखिलदुःखध्वंसकं तत्र धार्यम् । श्रुतिपथनिरतानां तत् सदा नैव धार्यम् ॥ इति ।। तत्र लिङ्गधारणं शैवागमेन बहुफलसाधनमिति प्रतिपादितम् । तत्संप्रदायानुवर्तिनो लिङ्गं दक्षिणबाहौ गळे वा धारयन्ति इत्याचारोऽप्युपलभ्यते । तथा चास्मिन् वचने " श्रुतिपथगळितानां सर्वतन्त्रेषु" इत्युत्तरं " प्रतिपादितं" इति शेषः । एवं च, यस्मिन् तन्त्रे लिङ्गधारणं प्रतिपादितं तत्तन्त्रं श्रुतिभ्रष्टानामित्यत्र लिङ्गम् । यथा “छागस्य वपाया मेदसः” इति मन्त्रलिङ्गेन पशुशब्दसंकोचः तथा । किंच, श्रीमदध्यात्मरामायणे श्रीलक्ष्मणप्रश्न: ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् । स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् ॥ तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥ इति ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy