SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २९० परशुरामकल्पसूत्रम् अथे ति पूर्वप्रक्रान्तविच्छेदद्योतकः । स्वेष्ट मन्त्र स्येत्यनेन अग्रे सौरवैष्णवादिसर्वसाधारणोपासनायाः वक्ष्यमाणत्वात् अत्रापि सर्वसाधारणो होमविधिः इति ज्ञापित्तः ॥ १॥ कुण्डस्थण्डिलनिर्माणम् ततः तद्विधिमाह-- चतुरनं . कुण्डमथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा ॥२॥ कु ण्ड मित्यनेन तन्त्रान्तरोक्तमेखलायोनिखातादिकमतिदिष्टं नाम्ना । च तु र श्रं नित्यम् । प्रजाऽऽदिकामनायां योनिकुण्डादिकमपि । सूत्रानुयायिनां न मण्डपविचारः, अनुक्तत्वात् असूचितत्वाच्च । आ या मः विस्तारः ॥ २ ॥ सामान्योदकेनावोक्षणम् सामान्याय॑मुपशोध्य तेनावोक्ष्य ॥ ३॥ तत्तत्क्रमोक्तविधिना सा मा न्योदकं निर्मायेत्यर्थः । यदि पूजाऽङ्गहोमः तदा पूजायां कृतेनैव कार्यसिद्धौ न निर्माणं, अन्यत्र निर्माणं इति ज्ञेयम् ॥ ३ ॥ ___ रेखासु ब्रह्मादिदेवताऽर्चनम प्राचीरुदीचीस्तिस्रस्तिस्रो रेखा लिखित्वा ॥ ४ ॥ प्राचीः प्रागग्राः उ दी चीः उदगग्राः ॥ ४ ॥ तासु रेखासु ब्रह्मयमसोमरुद्रविष्ण्विन्द्रान् षट्'तारीनमस्संपुटितानभ्यर्च्य ॥ ५॥ 1 तार-अ, श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy